पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५३ [अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । यदीमुशन्तमुशतामनु क्रतुममग्निं होतारं विदथाय जीजनन् ॥ २० ॥ (२) सो इति । चित् । नु । भद्रा । क्षुडमती । यशस्वती । उषाः । उवास । म- नवे । स्वःऽवती। यत् । ईम् । उशन्तम् । उशताम् । अनु । क्रतुम् । अग्निम् । होतारम् । विदथाय । जीजनन ॥ २० ॥ (२) सो चित सैव खलु भद्रा भन्दनीया कल्याणी क्षुमती मन्त्ररूपशब्द- वती । मातरनुवाकादौ बहुभिरुषस्यसूक्तैः शस्यमानत्वात् । अथ वा त- स्मिन् काले पक्ष्यादीनां प्रबुद्धानां शब्ददर्शनात् क्षुमती । यशस्वती । य- श इति अन्ननाम । अन्नवती मनुष्योपभोगार्थेन अन्नेन हविर्लक्षणेन वा तद्वती । तथा स्वर्वती स्वः आदित्यः । तद्वती । तदविनाभावात् । "-छ न्दसीवनिपौ" इति1 मनुपो वावम्। एवंरूपा उषाः मनवे मनु- ष्याय । जातावेकवचनम् । मनुष्याणां व्यवहाराय यजमा- नाय वा तस्याग्निहोत्राद्यर्थाय उवास प्रादुरभूत् । तमो निराचकारेत्यर्थः2 । यत् यदा ईम एनम् उशन्तम् कामयमानं3 होतारम् देवानाम् आह्वा- तारं होमनिष्पादकं वा अग्निम् उशताम् यज्ञार्थ कामयमानानां यजमा- नानां तेषां विदथाय यज्ञाय देवानां हविःप्रापणाय अनु ऋतुम तत्रतत्र क्रततौ तत्त्तत्क्रात्वर्थे जीजनन अजीजनन् उदपादयन् अध्वर्यवः ॥ __ [इति ] अष्टादशकाण्डे प्रथमेनुवाके द्वितीयं सूक्तम् ॥ अथ तृतीयं सूक्तम् ॥ तत्र प्रथमा ॥ अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषिरः श्येनो अध्वरे। यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥ २१ ॥ जीजनत् ।. CP जीवनम् ।. २f omits the avagraha. We with P Cr. ३ Cr उश- ताम् । 1808. We should have मादुपधायाश्च &c. instead of छन्दसी ke. 28 inserts अनुष्ठानाय उवास प्रादुरभूत् तमोनिराचकार after tiiis. 38 कामयमानानां भ्राजन्तं दी- प्यमानं.