पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४ अथर्वसंहिताभाष्ये अध । त्वम् । द्रुप्सम । विऽभ्वमि । विचक्षणम् । विः । आ । अभरत । .. इषिरः । श्ये॒नः । अध्वरे। यदि । विशः । वृणते । दुस्मम् । आर्याः। अग्निम्। होतारम् । अध। धीः । अजायत ॥ २१ ॥ अध अथ अनन्तरं त्यम् तम् । "तृतीयस्याम् इतो दिवि सोम आ. सीत" [तै ब्रा०३.२.१.१] इत्यादिश्रुतिप्रसिद्धम् । द्रप्सम्1 देवैमनुष्यैश्च भक्षणीयं सोमम् । कीदृशम् । विश्वम् महवामैतत् । महान्तं विचक्ष- णम् विद्रष्टारम एवंलक्षणं सोमम् इषिरः प्रकृष्टगमनः 2एषणां प्राप्तः अ- श्यादिदेवैः प्रार्थितो वा श्येनः शंसनीयगतिः सौपर्णो विः पक्षी अध्वरे यज्ञे निमित्तभूते सति आभरत आहरत आहृतवान् । गायत्री सुपर्णरूपं धृत्वा धुलोकात् सोमम् आहरद् इत्येतद् आख्यानम् 3“तृतीयस्याम् इतो दिवि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णम् अच्छिचत" [तै. ब्रा ३.२.१.१] "कद्रूश्च वै सुपर्णी चास्पर्धेताम्" [तै सं० ६.१.६. १] इत्यादिश्रुतिषु प्रसिद्धम् । एवम् आहते सोमे यदि यदा आर्याः सर्वैरभिगन्तव्या विशः प्रजाः यजमाना दमम् दर्शनीयम् अग्निं होतारम होमनिष्पादकम् । जुहोतेहोतेत्यौर्णवाभः इति निरुक्तम् [नि०७. १५] । होतृत्वेन वृणते वरणं कुर्वन्ति पुरस्कुर्वन्ति अध [अप] अनन्तरं सोमस्य अग्नेश्च सिद्धावाद् धीः । कर्मनामैतत् । अग्निष्टोमादि- लक्षणं कर्म अजायत जायते निर्वृता भवति । अग्निम् अन्तरेण4 कस्य- चिदपि कर्मणः असिद्धेः यदी विशो वृणते अध धीरजायतेति अग्नेर्होतृ- त्वोपयोगित्वेन5 स्तुतिः ॥ द्वितीया ॥ सदासि रण्वो यवसेव पुष्यंते होत्राभिरग्ने मनुषः स्वध्वरः । विप्रस्य वा यच्छंशमान उक्थ्यो वाज ससवाँ उपयासि भूरिंभिः ॥२२॥ BV उपयासि. De उपयासि corrected to उपयासि. We with AC KR. 1S has here a blank for about five letters. 28 रणां. 38 सृतीयं यस्या. 4S °अन्तरेणास्य for अन्तरेण कस्य. 3 अग्नेराहत्योप° for अग्नहोतृत्वोप.