पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । ५५ सदा । असि । रण्वः । यवसाऽइव । पुष्यते । होत्राभिः । अमे। मनुषः। सुऽअध्वरः। विप्रस्य । वा । यत् । शशमानः । उक्थ्यः । वाजम् । ससऽवान् । 1उपऽया- सि । भूरिऽभिः ॥२२॥ हे अग्ने स्वध्वरः शोभनयागः सुष्ठु यागस्य निर्वर्तकस्त्वं [मनुषः म- नुष्यस्य स्वभूताभिः] होत्राभिः होमसाधनाभिः आज्यादिभिः पुष्यते पो- षयित्रे यजमानाय तदर्थं सदा सर्वदा रण्वः रमणीयः दर्शनीयोसि । त- त्र दृष्टान्तः । यवसेव यबसा हरिततृणादिना गवादिरिव । स यथा पु- ष्यते स्वामिने रमणीयो भवति तद्वत् । [यत् ] यस्त्वं शशमानः शं- सन् यजमानं प्रशंसन् उक्थ्यः स्तोतव्यश्च सन् विप्रस्य मेधाविनो यज- मानस्य वाजम् अन्नं हविर्लक्षणं ससवान् संभजमानः भूरिभिः बहुभिः कामैः सहितस्त्वं बहुभिर्देवैः सहितो वा उपयासि उपगच्छसि । यत एवं करिष्यसि अतस्वं यजमानस्य सदा रण्वोसीति संबन्धः ॥ तृतीया ॥ उदीरय पितरा जार आ भगमियक्षति हर्यतो ह्रत्त इष्यति । विवक्ति वह्निः स्वपस्पते मखस्तविष्यते असुरो वेपते मती ॥ २३ ॥ उत् । ईरय । पितरा । जारः । आ। भगम् । इयक्षति । हर्यतः । हृतः । इष्यति। विवक्ति । वह्निः। सुऽअपस्यते। मखः। तविष्यते । असुरः । वेपते । मती ॥२३॥ हे अग्ने त्वं पितरा पितरौ मातापितरौ। "पिता मात्रा” इ. त्येकशेषः । अत्र द्यावापृथिव्यौ गृह्यते । “द्यौः पितः पृथिवि मा- तः" [तै ब्रा०२.४. ६.५] "द्यौः पिता पृथिवी माता" [तै ब्रा ३. ७. ५.४] इत्यादिश्रुतिषु तथा श्रवणात् । तौ उदीरय उद्गमय यज्ञं प्रति प्रेरय । यद्वा तावकं तेजः पितरौ प्रति उदीरय उद्गमय । आयन्तं प्रज्व- लितो भवेत्यर्थः । तत्र दृष्टान्तः जार आ भगम् । जारः आदित्यः रात्रे- १PP उपऽयासि ।, Cr उप ! यासि !.