पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये पासहिम्" [ऋ.१०.१६६.१] "अषाढम् उग्रं सहमानम्" [ तै.ब्रा. २.7:५.7.] इत्यादिषु इन्द्रविशेषणतया प्रसिद्धानि विषासहिम् इत्यादीनि सूर्येपि अविरुद्धानि । ईड्यम स्तुत्यम् आरोग्याद्यर्थिभिः सर्वैः प्राणिभिः सर्वदा स्तोतव्यं नाम सर्वेषां नामकम् । अथ वा नामेति प्रसिद्धौ । ईड्यावेन प्रसिद्धम् इन्द्रम् आदित्यं खे हुवे इति संग्रहार्थः । प्रह- यतेर्लटि "बहुलं छन्दसि" इति संप्रसारणम् । छान्दसो यण। की- दृशम् इन्द्रम् इति तं विशिनष्टि विषासहिम् इत्यादिना । विषासहिम् विशेषेण सोढारम् । यथा शत्रयो न पुनरुद्भवन्ति तथा नाशयितारम् इत्यर्थः । षह अभिभवे । अस्माद् यङन्तात "सहिषहिचलिपति- भ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ” इति किमत्ययः । तदेव उ- पपादयति सहमानम् इति । सहनशीलम् । “इन्द्रो यातूनाम् अभ- वत् पराशरः" [.. ४. २१] इत्यादिश्रुतिभ्य इन्द्रस्य सहनशीलं प्रसि- . द्धम् । यस्य यादृक् स्वभावः स तादृशं करोतीति प्रसिद्धम् । अतः शत्रुहननस्वाभाव्याद् विषासहित्वं तस्य युक्तम् इत्यर्थः । सहेर्लट- श्वानश् र । न केवलम् इदानीमेव तच्छीलत्वं प्रागपि तथेत्या- ह । सासहानम् पूर्वमपि अभिभवितारम् । अतः शत्रुहननवभावता सि- द्धा। लिटः कानच् । एवाभ्यासलोपयोरभावश्छान्दसाः। ननु सन्त्यन्ये सोढारः कोस्यातिशय इति तत्राह सहीयांसम् इति । सोढुणां मध्ये अतिशयेन सोढारम् । सोढुशब्दात् "तुश्छन्दसि" इति ई- यसुन् । "तुरिष्ठेमेयःसु" इति तृलोपः । उक्तविशेषणचतुष्टयसि द्धम् अर्थ पुनरनुवदति क्रियासंबन्धाय सेहमानम् इति । उक्तोस्या- र्थः । 2सहेश्चानश् । एवंमहानुभावम् इन्द्रशब्दाभिधेयम आदित्यं हुवे । इत्थं शत्रुसहनहारेण इन्द्रं प्रशस्य अथ तेषां सहआदि- जेतृपद्वारेणापि प्रशंसति । सहोजितम् सहः परेषाम् अभिभावुकं तेजः । तस्य जेतारं शत्रुबलापहर्तारम् । स्वर्जितम् । स्वर् इति सुखनाम । श- त्रूणां यत् सुखं तस्य जेतारं नाशयितारम् स्वर्गस्य वा जेतारम् । तथा गोजितम् गोशब्दो महिष्यजाविकरितुरगोष्ट्रादेरुपलक्षकः । शत्रूणां ये ग. 1 सासहानमिति. 2 सहेः शानन्.