पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०१.] ५४० सप्तदशं काण्डम् । "द्यात् । तस्य कल्पः ।" इत्यादि सुवर्णशकलं चोपरिष्टान्निधायार्च- येद् रक्त1कुसुमैर्विषासहिम् इत्यभिमन्त्र्य ब्राह्मणाय निवेदयेत् " इति' [प° १२.१] । अत्र "त्वमिन्द्रस्त्वं महेन्द्रः" इत्यनेन मन्त्रेण दर्शॆष्टौ माहेन्द्रं हविर- नुमन्येत । तद् उक्तं वैताने । “सांनाय्यस्यैन्द्रं माहेन्द्रं वा इन्द्रेमम [६.५.२] त्विमिन्द्रस्त्वं महेन्द्रः [१७.१०]" इति [वै०१.३] ॥ तत्र प्रथमा । . विषासहिं सहमानं सासहानं सहीयांसम् । सहमानं सहोजित स्वर्जितं गोजितं संधनाजितम् । ईड्यं नाम ल इन्द्रमायुष्मान भूयासम् ॥१॥ . विडससहिम् । सहमानम् । ससहानम् । सहींयांसम् । सहमानम् । सहःडजितम् । स्वःऽजितम् । गोऽजितम्। संधनऽजितम् । ईड्यम् । नाम । खे । इन्द्रम् । आयुष्मान । भूयासम् ॥१॥

अत्र सूर्यादित्यादिप2दलिङ्गानाम् अश्रवणेपि कृत्स्नस्याप्यनुवाकस्य उक्तप्र- कारेण कृत्स्नेषु3 सौर्येषु कर्मसु प्रायेण विनियोगात सूर्यपरतया मन्त्रा ,व्या- ख्येयाः । अथ वा परमैश्वर्ययोगात् “इन्द्र इरां वृणातीति वा इरां दा- रयतीति वा इरां धारयतीति वा" [नि० १०..7] इत्यादिनिरुक्तकारो- क्तानाम् अवयवार्थानां वृष्टिद्वारा सर्वेषां भूतानाम् आत्मावात् सूर्ये संभ- वाच्च ईड्यं नाम व इन्द्रम् इति इन्द्रशब्द आदित्यम् अभिधते । अथ वा "विवस्वदिन्द्रयुताः" इति “इन्द्रश्च 4विवस्वांश्चेत्येते" इति [तै आ°१. १३.३] च द्वादशादित्यमध्ये इन्द्रस्यापि श्रुतत्वात् स्मृतत्वाञ्च इन्द्रः सा- क्षाद् आदित्य एव । तथा तैत्तिरीयश्रुतिः । “ऐन्द्रीम् आवृतम् अन्वाव- ते । असौ वा आदित्य इन्द्रः। तस्यैवावृतम् अनु पर्यावर्तते" इति [ते. सं०१.७. ६.३] । अतः उक्तरीत्या आदित्येन्द्रयोरेकत्वेन "सपालानां वि- P°जितम् ।। 1 यार्चयेत् दिक्षुकुसुमैः 2 पादलिंगानाम्. 3 omits 'त्स्नेषु. 4 विव- स्वांश्चैते.