पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left1
right
center

अपर्वसंहिताभाष्ये

अथर्वसंहिताभाष्ये सूत्रितम् । “विषासहिं सहमानम् इत्येतेन सूक्तेन जुहुयात् । सा तत्र प्रायश्चितिः" इति [को० १३.७] । सूक्तेन । अर्थसूक्तेनेत्यर्थः । अतः कृत्स्नस्याप्यनुवाकस्य ग्रहणशान्तौ विनियोग इत्यवसीयते ॥ तथा चन्द्रग्रहणरूपाङ्द्भूते तच्छान्त्यर्थम् अनेनानुवाकेन उपस्थानं कु- र्यात् । “अ1थ यदेतश्चन्द्रमसम् उपप्लवति" इति [को०१३..] प्रक्रम्य सूत्रितम् । “रोहितैरुपतिष्ठते" इति ॥ अस्यानुवाकस्य आयुष्यगणे पाठाद् उपाकर्मणि अनेनानुवाकेन आज्यं जुहुयात् । “अभिजिति शिष्यान् उपनीय" इति प्रकम्य कौशिकेन सू- त्रितम् । “ विश्वकर्मभिरायुष्यैः स्वस्ययनैराज्यं जुहुयात् " इति [को॰ १४.३]॥ अस्य सूक्तस्य सलिलगणे पाठात् “आदित्यां श्रुततेजोधनायुष्कामस्य" इति [न क°१७] विहितायाम् आदित्याख्यायां महाशान्तौ अस्यानुवा- कस्य विनियोगः । तद् उक्तं नक्षत्रकल्पे । “सलिलगण आदित्यायाम" इति [न क०17] ॥ तथा कोटिहोमे अस्यानुवाकस्य विनियोगः । कोटिहोमं प्रक्रम्य उ- क्तम् अथर्वपरिशिष्टे । जुहुयुः शान्तवृक्षस्य समिधो घृतसंयुताः। . स्वयं चापि य2जेद् ब्रह्मा सवितारं दिनेदिने । पाकयज्ञविधानेन मन्त्राश्च स्युर्विधासहिः। शान्तिका3मो यवैः कुर्यात तिलैः पापापनुप्तये । इत्यादि [प°३१.६] ॥ तथा भास्करप्रीत्यर्थं क्रियमाणे आदित्यमण्डलदाने अस्यानुवाकस्य म- ण्डलाकारापूपाभिमन्त्रणे विनियोगः । तद् उक्तम् अथर्वपरिशिष्टे । “अथ "यः कामयेत सर्वेषां नृणाम् उत्तमः स्याम् इति स भास्करायापूपं द- IS The Kansika sutra does not correspond with the quotation. रोहितैरुपतिष्ठते is not in Kausika 13. 8, but in 13. 7, so that part of 13.7 is quoted by Sayana as yart of 13. 8. Sayana, however, who quotes from the kesavi rather than firom Kausika, is misled by the directions given in the former. 28 जपेद्ब्रह्मा. We with the Athatharvaparisishta. 3कामाय वै for कामो परः which we take from the Atharvaparisishta.