पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भीगणाधिपतये नमः॥ यस्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् । निर्ममे तम् अहं वन्दे विद्या1तीर्थमहेश्वरम् ॥ १॥ .सप्तदशे काण्डे एकोऽनुवाकः । तत्र त्रीणि सूक्तानि । अयं “विषा- सहिम्" इत्यनुवाकः सलिलगण2मध्ये पठितः । अतः "सलिलैः क्षीरौ- दनम् अन्नाति । मन्थान्तानि" इति [को०३.१] "सलिलैः सर्वकामः" [को०३.७] इत्यादौ चा3स्य विनियोगः ॥ ' उपनयनकर्मणि आचार्यः ब्रह्मचारिणो नाभिदेशं संस्पृश्य अमुम अनु- वाकं जपेत् । तद् उक्त कौशिकेन । “दक्षिणेन पाणिना नाभिदेशं संस्त- भ्य जपति अस्मिन् वसु वसवो धारयन्तु" [१.९] इत्यादि “प्राणाय नमः [११.६] विषासहिम [१७.१] इत्यनुमन्त्रयते" इत्यन्तम्3 [को० ७.६] ॥ उपनयनकर्मण्येव ऋषिहस्ते “कर्मणे वाम्" इति हस्तप्रक्षालनानन्त- रम् आचार्यों माणवकम् अनेनानुवाकेन अभिमन्त्रयते । “ऋषिहस्तस्य4 कर्मणे वां वेशाय5 वाम्" इति प्रक्रम्य सूत्रितम् । “आ रभस्व [४.२] प्राणाय नमः[११.६] विषासहिम्[१७.१] इत्यभिमन्त्रयते” इति [को॰7-9़)।। __ उपनयन एव आयुरभिवृद्ध्यर्थम् अनेनानुवाकेन माणवकस्त्रिकालम् आदित्यम् उपतिष्ठेत । सूत्रितं हि । “उदस्य केतवः [१३.२] मूर्धाहम् "[१६.३] विषासहिम[१७.१] इत्युद्यन्तम् उपतिष्ठते मध्यन्दिने अस्तं "यन्तम्" इति [को०७.९] ॥ तथा आदित्यग्रहणरूपाङ्द्भूते तच्छान्त्यर्थम् अनेनानुवाकेन आज्यं जुहु- यात् । “अथ यत्रैतद् आदित्यं तमो गृह्णाति तत्र जुहुयात" इति प्रक्रम्य 1 गणे. 2 om. च. 3 इति for इत्यन्तम्, 4 So S. Kausika : ऋषिहस्तश्च. 5 Kausika: वेषाय.