पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

g" उपे- तन्त्रम् । अथर्वसंहिताभाष्ये वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥ ४९ ॥ परेयिऽवांसम् । प्रऽवतः । महीः । इति । बहुऽभ्यः । पन्थाम् । अनुडप- स्पशानम्। वैवस्वतम् । समडगमनम् । जनानाम् । यमम् । राजानम् । हविषा । स- पर्यत ॥४९॥ परेयि1वांसम् परागतम् अत्यन्तविप्रकृष्टदेशं गतवन्तम् । उपे- यि2वाननाश्वाननूचानश्च” इति क्वस्वनो निपातितः । उपसर्गग्रहणम् अ-

तन्त्रम्। परागतिं विशिनष्टि । प्रवतो महीरनुं प्रकर्षवती3र्भू -

मीः प्रति । सर्वां भूमिम् अतिक्रम्य वर्तमानम् इत्यर्थः । उ पसर्गाच्छन्दसि धात्वर्थे” इति वतिः । अर्थग्रहणसामर्थ्यात् लिङ्गसंख्या- योगः ।किं च बहुभ्यः पितृलोकं गतेभ्यः पन्थाम् पन्थानं मा- र्गम् अनुपस्पशानम् । अनु इत्ययम् अवेत्यस्यार्थे । अवगच्छन्तम् इत्य- र्थः । स्प4शतिर्ज्ञानकर्मा । एवंरूपं वैवस्वतम् विवस्वतः पु- त्रं जनानाम् मृतानां संगमनम् प्राप्तिस्थानभूतम् एवंमहानुभावं यमं राजानं हविषा सपर्यत पूजयत ॥ दशमी॥ यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः॥५०॥ (५) यमः।नः। गातुम्। प्रथमः। विवेद ।न। एषां । गव्यूतिः । अपेऽभर्तवै। ऊ इति। यत्र । नः । पूर्वे। पितरः । पराऽइताः । एना। जज्ञानाः । पथ्याः । अनु। स्वाः॥५०॥(५) यमो देवः नः अस्माकं संबन्धिनां मृतानां गातुम् मार्ग प्रथमः पू- १C एषां। 18 परेयुवां 23 उपेयुवान° for उपेयिवान', and the text also in s' has उपेयु- वान. 38 प्रकर्षचत्यो. स्पर्शयतिज्ञा, एना