पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७५ [अ॰१. सू०१.] ५४१ अष्टादशं काण्डम्। र्धयन्ति यज्ञे । ये च पितरः कव्यादयो देवान् निर्दिष्टान् ववृधुः वर्ध- यन्ति स्व1धामदाने ते अत्र निर्दिष्टाः पितरः नः अस्मान् हवेषु आ- ह्वानेषु अवन्तु रक्षन्तु ॥ अष्टमी॥ स्वादुष्किलायं मधुमाँ उतायं तीवः किलाय रसवाँ उतायम् । उतो न्वस्य पंपिवांसमिन्द्रं न कश्चन्न सहत आहवेषु ॥ ४ ॥ स्वादुः । किल । अयम् । मधुऽमान । उत । अयम् । तीवः । किल । अ- यम् । रसऽवान् । उत । अयम। उतो इति । नु । अस्य । पपिऽवांसम् । इन्द्रम । न । कः । चन । सहते। आऽहवेषु ॥ ४ ॥ अत्र सोमः स्तूयते । अयम् अभिषुतः सोमः स्वादुः सुखेन आस्वा- द्यः किल । यथा बा2लकं पयआदिकपानाय3 स्वाद्वादिगुणकीर्तनेन प्र- रोचयति तद्वद् अत्रापि अभिधीयते । उत अयं सोमः मधुमान माधु- र्योपेतः किल । यत एवम् अतः स्वादुरित्यर्थः । तथा अयं सोमः ती- व्रःआशु मदयिता किल । उत अपि च अयं रसवान् बहुरसोपेतः किल । उतो अपि च नु किल अस्य अमुं सोमं पपिवांसम् पीतव- नाम् इन्द्रम् आहवेषु परस्पराह्वानवत्सु संग्रामेषु कश्चन असुरादिः न सहते नाभिभवति । तं सोढुं न शक्नोतीत्यर्थः । अनेनास्य अत्यन्त- बलकरत्वम् उक्तं भवति । तत्र सर्वत्र स्वाद्वा3दिगुणेषु अनुभवसिद्धेष्वपि पितॄणां4 देवानां [च] तत्प्रत्यायनाय किलेति प्रयुक्तम् इति मन्तव्यम् ॥ नवमी॥ परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् । १० स्वादुः किलाय. We with A B . RV Dr. २ मधुमं. D: मधुमं chungel to मधुमां. C मधुमा. ३R रसवं. De रसवं changeel to रसवाँ. CR for . C: I. So all our MSS. and sailikas. But it is ccrtain that is a mistake forfat. Observe that Sayana explains by afraid (though his own reucling is st). 15 स्वप्रधान्ये. 28 बालकं पयआदिकं पानाय. 3' स्वादिगुणेषु. 45 तपितृ- णांदेवनांप्रत्यायनाय.