पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४ अथर्वसंहिताभाष्ये ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु दिक्षु ॥ ४६॥ इदम। पितृऽभ्यः। नमः। अस्तु । अद्य। ये। पूर्वांसः । ये। अपरासः। ईयुः। ये । पार्थिवे । रजसि । आ। निऽसताः। ये । वा। नूनम् । सुऽवृजनासु । दिक्षु ॥ ४६॥ पितृभ्यः अद्य इदानी् क्रियमाणम् इदं नमोस्तु । “नमस्कारो हि पितॄणाम्" इति श्रुतेः [तै ब्रा० १.३.१०.१] नमउक्तिः क्रियते । पितृन् विशिनष्टि । ये पूर्वासः पूर्वे 1परेताः ईयुः पितृलोकं प्राप्ताः । उँ अपि च परासः परे ईयुः । ये च पितरः पार्थिवे रजसि भूलोके आ निषताः आनिषण्णाः स्थिताः । "नसतनिषत" इत्यादिना नि- पातितः । वा अथ वा ये पितरो नूनम् इदानी सुवृ2जनासु सुष्टु विभक्तासु दिशु प्रागादिषु आ निषताः । तेभ्यः सर्वेभ्यः पितृभ्यः इदं नमोस्तु इति पूर्वत्रान्वयः ॥ सप्तमी॥ मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरक्वभिर्वावृधानः । यांश्च देवा वावृधुर्ये च दे॒वांस्ते नोवन्तु पितरो हवेषु ॥४७॥ मातली। कव्यैः । यमः । अङ्गिरःऽभिः। बृहस्पतिः । ऋकऽभिः । ववृधानः । यान् । च । देवाः । ववृधुः । ये । च । देवान् । ते । नः । अवन्तु । पित- र-। हवेषु ॥ ४७ ॥ मातली यमः बृहस्पतिश्च पितॄणां नेतारो देवाः । अत्र मातली ना- म देवः [कव्यैः ] एतासंज्ञकैः पितृभिः सह वावृधानः वर्धमानों भवति यजमानप्रतेन हविषा । तथा यमो देवः अङ्गिरोभिः पितृभिः सह । यमस्य देवत्वं पितृत्वं चेति द्वैरूप्यम् अस्ति । अत्र देवत्वं विवक्षितम् । तथा बृ- हस्पतिर्देवोपि ऋक्वभिः अर्चनीयैः [एतन्नामकैः पितृभिः सह वावृधा- नः । तत्र यांश्च पितॄन देवाः मातल्यादयः प्रमुखाः सन्तो वावृधुः व- १80PP Aud Cr, and not उपरासः | or उ.। परासः.. 18 परितः. 25 वृजिनासु for सुवृजनासु.