पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । ७३ पञ्चमी ॥ आहं पितॄनत्सुविदंत्रा अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥ ४५ ॥ आ। अहम् । पितॄन् । सुऽवित्रानं । अवित्सि । नपातम् । च । विऽक्र- मणम् । च । विष्णोः। बर्हिऽसदः । ये । स्वधया । सुतस्य । भजन्ता । पित्वः । ते । इह । आऽग- मिष्ठाः॥४५॥ अहं सुविदत्रान् कल्याणधनान् पितॄन आवित्सि आभिमुख्येन प्राप्नोमि आजानामि वा । विदेर्लाभार्थात् लुङि सिचि "एकाच उपदेशे- नुदातात्" इति इट्प्रतिषेधः । “लिडिचावात्मनेपदेषु” इति कित्त्वाद् गु- णाभावः । क्रियाफलस्य कर्तृगामित्वाद् आत्मनेपदम् । विदेर्ज्ञानार्थाद् वा लुङि व्यत्ययेन आत्मनेपदम् । 1इडभावः । किं च विष्णोः । “य- ज्ञो वै विष्णुः" इति [तै.बा ३.१.६.७] श्रुतेर्यज्ञाख्यस्य विष्णोः न- पातम् न पातयितारम् । र "नभ्राण्नपात" इत्यादिना निपातितः निर्वाहकम् अग्निं च आवित्सि । तथा विक्रमणं च क्रमेण सवनत्रयाक्रमणं च आवित्सि । अतो ये बर्हिषदः बर्हिषि निषीदन्तः एतन्नामकाः पितरः सन्ति । “ये वै यज्वानो गृहमेधिनस्ते पितरो बर्हि- षदः " इति श्रुतेः [तै. बा.१.६.९.६] । एवंलक्षणा ये स्वधया सह सुतस्य अभिषुतस्य । कर्मणि षष्ठी । सुतं सोमं [भजन्त] भजन्ते ते तान् हे अग्मा पित्वः । आसन्ननामैतत् । आसन्नः सन् इह अस्मिन् कर्मणि आगमिष्ठाः आगमय । अथ वा ये भजन्ते ते पितरः पिवः अन्तिकं देशम् आगमिष्ठाः आगच्छन्तु ॥ षष्ठी ॥ इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः । १R "विदत्रं अवित्सि. Dविदत्रं अवित्सि changed to °विदत्री अवित्सि. वि- दत्राम् ।. We with P Ce. ३ . यउपरास. We with A BC RV Dc. 18 इडाभाव. १०