पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ अथर्वसंहिताभाष्ये अनेकैः पुत्रादिभिः पूजनीयं पुत्रादिसंतर्पकं बहुमूल्यावेन अनर्घ वा इडः अन्नस्य भागम् भजनीयम् अंशं रायस्पोषम् धनस्य गवादिलक्षणस्य पु- ष्टिं च यजमानाय मह्यं धेहि प्रयच्छ । रायस्पोषम् इति । "ष- ष्ट्याः पतिपुत्र” इत्यादिना सांहितिकं सत्वम् ॥ चतुर्थी ॥ उदीरतामवर उत् परास उन्मध्यमाः पितरः सोम्यासः। असुं य ईयुरवृका ऋतज्ञास्ते नोवन्तु पितरो हवेषु ॥ ४४ ॥ उत्।ईरताम् । अवरे। उत्। परासः। उत्। मध्यमाः। पितरः। सोम्यासः । असुम् । ये। ईयुः । अवृकाः । ऋतंऽज्ञाः। ते । नः। अवन्तु । पितरः । हर्वेषु ॥ ४४॥ अवरे वयसा1 गुणैर्वा निकृष्टाः पितरः उदीरताम उतिष्ठन्तु ।ईर गतौ । आदादिकोऽनुदात्तेत् । तथा परासः परे वयआदिना श्रेष्ठाः पितरः उदीरताम् । एवं मध्यमाः उक्तप्रकारेण तादृशाः पितरः उत्तिष्ठ- न्तु । अथ वा [अवरे पुत्रपौत्रप्रपौत्राः2] परासः परे वृद्धप्रपितामहादयः । मध्यमाः पितृपिता3महप्रपितामहाः । सर्वत्र उदीरताम् इति संबन्धः । यद्वा सोम्यास इति सोमसंबन्धाद् अङ्गिरसो नः पितरो नवग्वा अ- थर्वाणो भृगवः सोम्यासः" [५] इत्यादिमन्त्रोक्ता अङ्गिरःप्रभृतयः पू- र्वतनाः पितरः अत्र गृह्यन्ते । तेष्वेव तपआदिमहत्वतारतम्येन अवर- परमध्यमावलक्षणो विभागो द्रष्टव्यः । ते विशेष्यन्ते । सोम्यासः । सो- मार्हाः सोमसंपादिनः । x“सोमम अर्हति यः" इति 4यंप्रत्ययः ये असुम् प्राणम् ईयुः प्राणोपलक्षितं लिङ्गशरीरं प्राप्ताः प्राणं वा प्रयच्छन्ति स्वयष्टुभ्यः । अवृकाः अहिंसकाः । ऋतज्ञाः सत्य- विदः । ते तादृशाः पितरः हवेषु आह्वानेषु निमित्तभूतेषु नः अस्मान् अवन्तु रक्षन्तु ॥ << 3 S om. १CP ऋतज्ञाः। 18सा for वयसा. 2 S has a lacuna here for alvout twelve letters. पितामहप्र 4 S' Om.य Tº