पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । ७१ . आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् । अनमीवाः । इषः । आ।धे- हि । अस्मे इति ॥ ४२ ॥ सरस्वतीं देवीं पितरोपि हवन्ते आह्वयन्ति । कीदृशाः । दक्षि- णा। “दक्षिणाद् आच्" इति आच् प्रत्ययः । वेदेर्दक्षिणभागे यज्ञम् अभिनक्षमाणाः व्याप्नुवानाः । नक्षतिर्व्याप्तिकर्मा । “स- र्वकर्माणि तां दिशम्" इत्यादिसूत्रात् [आश्व०२.६.३] वेदेर्दक्षिणभागे पैतृकं कृत्स्नं कर्म क्रियते । पितॄणामपि स्वधालाभाय सरस्वत्यपेक्षा वि- द्यत एव । तत्रापि मन्त्रादिरूपायाः सरस्वत्या अपेक्षितत्वम् ॥ हे पितरः यूयम् अस्मिन् क्रियमाणे बर्हिषि यज्ञे आसद्य उपविश्य मादयध्वम् स- रस्वतीं तर्पयत । आसद्य यूयं वा मादयध्वम् तृप्ता भवत । अस्माभिर्दत- या स्वधयेति शेषः । किं च हे सरस्वति पितृभिराहूता त्वम् अनमी- वाः हिंसकै रक्षोभिर्वर्जिताः व्याधिरहिता वा इषः इष्यमाणाः एवंलक्ष- णानि अन्नानि अस्मे अस्मासु आ धेहि स्थापय ॥ तृतीया ॥ सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती। . सहस्रार्धमिडो अत्र भागं रायस्पोषं यज॑मानाय धेहि ॥ ४३ ॥ सरस्वति । या । सऽरथम् । ययाथ। उक्थैः । स्वधाभिः। देवि। पितृऽभिः । मदन्ती। सहस्रऽअर्घम्। इडः। अत्र। भागम्।रायः। पोषम्। यजमानाय। धेहि॥४३॥ हे सरस्वति देवि या प्रसिद्धा वं सरथम् समानम् एकमेव रथं य- याथ यासि । सामर्थ्यात् पितृभिरिति गम्यते । या प्रापणे । लि- दि "अचस्तास्वत्यल्पनिटो नित्यम्” इति थलि इडभावः। की- हशी त्वम् । 1उक्थैः शस्त्रैः स्वधाभिः । पितॄणाम् अन्नं स्वधा । ता- भिश्च पितृभिः सह2 मदन्ती आत्मानं तर्पयन्ती । त्वम [अत्र] सहस्रार्घम Pइषम् ।. 18 inserts वहं at lefore उक्थैः . omitsr in सह.