पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७० अथर्वसंहिताभाष्ये पितृमेधे परेयिवासम् इति द्वाभ्यां [कनिष्ठपुत्रेण चित्यादीपने सति या- म्यौ- होमौ1] कुर्यात् ॥ तत्र प्रथमा । सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने। सरस्वतीं सुकृतो हवन्ते सरखती दाशुषे वार्यं दात् ॥ ४१ ॥ सरस्वतीम् । देवऽयन्तः । हवन्ते । सरस्वतीम् । अध्वरे । तायमाने । सरस्वतीम् । सुऽकृतः । हवन्ते । सरस्वती । दाशुषे । वार्यम् । दात ॥४१॥ सरस्वतीम सरणवतीं सकलशब्दसरणिस्वरूपां वाग्देवतां देवयन्तः दे- वान् यष्टव्यान् आत्मन इच्छन्तः । “सुप आत्मनः क्यच्" इ. ति क्यच् । अत्र विनियोगानुसारेण देवः मृतशरीरस्य संस्कार- कोऽग्निः यमो वाभिमतः । तम् इच्छन्तः हवन्ते आह्वानं कुर्वन्ति । तस्य प्रीणनायेति शेषः । तथा सरस्वतीमेव अध्वरे यज्ञे ज्योतिष्टोमादौ ता- यमाने सति हवन्ते । "तनोतेर्यकि" इति आवम् । यज्ञे सारस्वतहोमस्य विद्यमानत्वात् स्तोत्रशस्त्रादीनां वागात्मकत्वात् तत्सिद्धये च हवन्ते । अत्रापि विनियोगानुसारेण अध्वरः पैतृमेधिको द्रष्टव्यः । एवम् उत्तरत्रापि विनियोगानुसारेण योज्यम् । तथा सरस्वती सुकृतः सुकर्माणः स्वस्वाभिमतफलाय अर्ह्वयन्त आह्वानम् अकुर्वन् पूर्वे आह्वय- न्ति इदानीम् । इति सरस्वती देवी दाशुषे हविर्दत्तवते यजमानाय वा- र्यम् वरणीयं दात् प्रयच्छतु ॥ द्वितीया ॥ सरस्वतीं पितरो हवनो दक्षिणां यज्ञमभिनक्षमाणाः। आसद्यास्मिन् बर्हिर्षि मादयध्वमनमीवा इष आ धेह्यस्मे ॥ ४२ ॥ सरस्वतीम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणाः । १ Cr हवैते।. PAC K हवन्ते दक्षिणा. We with BR V De. 18 has lecuna here tor about cleven letters with मौ at the end.