पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अस्माकं वान्तु । अग्निसहायत्वेनेति शेषः । यद्वा अस्माकं सुखायेति यो- ज्यम् । किं च मित्रः सर्वप्राणिनां मित्रभूतः एतन्नामको देवः नः अ- स्माकम् अर्थाय अत्र अस्मिन कर्मणि युज्यमानः सन् शोकं व्यसृष्टेति उत्तरत्र संबन्धः । तथा वरुणोपि देवो युज्यमानः सन् शोकं 1व्यसृष्ट । नाशयवित्यर्थः । सृज विसर्गे । अस्माद् दैवादिकात् लुङि रू- पम् । तत्र दृष्टान्तः । अग्निर्वने न अग्निर्यथा तृणगुल्मादिकं कात्रूर्येन विसृजति दहति एवम् इति ॥ दशमी ॥ स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् । मृडा जरित्रे रुद्र स्तानो अन्यमस्मत् ते नि वपन्तु सेन्यम् ॥४०॥ (४) स्तुहि । श्रृतम् । गर्तऽसदम् । जनानाम् । राजानम् । भीमम् । उपऽह- त्नुम् । उग्रम्। मृड । जरित्रे । रुद्र । स्तवानः । अन्यम् । अस्मत् । ते । नि । वपन्तु । से- न्यम् ॥ ४० ॥ (४) अत्र अग्निरूपो रुद्रः स्तूयते । “रुद्रो वै क्रूरः" [तै.सं० ६.१.७. ७] ["एष रुद्रो] यद् अग्निः " [तै ब्रा०१.१.५..] इति श्रुतेः । अत्र स्तोता स्वात्मानमेव संबोध्य ब्रूते । हे स्तोतस्वं [श्रुतम् प्रसिद्धं ] ग- र्तसदम् । “श्मशानसंचयोपि गर् उच्यते" [नि. ३.५.] इति निरु- क्तोक्तेर्गर्तः शवदाहप्रदेशः । तत्र सीदतीति गर्तसदः । प्रसिद्धो गर्तो वा परिगृह्यते । तस्य अरण्ये संचाराद् गर्तसदनं युज्यते । पुनः कीदृशम् । जनानां किरातपिशाचादिजनानां राजानम् स्वामिनम् । तथा भीमम बिभेति अस्माद् इति भीमं भयजनकम् । तथा उपहलुम् उपत्य ह. न्तारम् । उग्रम् उद्गूर्णबलम् । एवंमहानुभावं रुद्रम् हे आत्मन् स्तुहि स्तुतिं कुरु ॥ अथ प्रत्यक्षवादः । हे रुद्र । सर्वप्राणिनो माम् अनिष्ट्2वा १PP स्नुहि।. २P शुतम् ।. Cr सुतम् ।. 18 व्यसृष्टवान् नाश° for व्यसृष्ट । नाश. 28' अमिष्ठा.