पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू.१.] ५४१ अष्टादशं काण्डम्। बलवतोऽसुरस्य हन्ता वं वृत्र1हत्येवं वृत्रहननेनेव यथा त्वं श्रुतः एवं श- वसा । बलनामैतत् । बलेन गोत्रभेदनब2लनमुच्याद्यसुरविनाशकरणादिरू- पसामर्थ्येन 3श्रुतः विख्यातोसि तेन युक्तो भवसि । यस्माद् एवम् अतो मघैः महनीयैर्बहुविधैर्धनैः मघोनः धनवतः बहुविधैर्धनैराढ्योहम् इति म- न्यमानस्य आढ्यस्य । धनम् इति शेषः । हे शूर विक्रान्त वं तब- नम अति दाशसि अतिप्रयच्छसि । मह्यम् इति शेषः । त्वदर्थ यागम् अकुर्वाणस्य धनं तव यष्ट्रे मह्यं प्रयच्छेत्यर्थः । “अयज्वनो विभजन्नेति वेदः" [ऋ०१.१०३.६] । “आ नो भर प्रमगन्दस्य वेदः" [. ३. ५३.१४] इत्यादिश्रुतेः ॥ नवमी ॥ स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ । मित्रो नो अत्र वरुणो युज्यमानो अग्निर्वने न व्यसृष्ट शोकम् ॥३९॥ स्तेगः । न । शाम । अति । एषि । पृथिवीम् । मही इति । नः । वाताः । इह । वान्तु । भूमौं। मित्रः । नः । अत्र । वरुणः । युज्यमानः । अग्निः । वने । न । वि । अ- सृष्ट । शोकम् ॥ ३९॥ [4स्त्यायति संघातेन बाहुल्येन शब्दं करोति वर्षास्विति स्तेगो मण्डूकः।] स यथा क्षाम् क्षियन्ति निवसन्त्यत्रेति क्षा मही तां यथा आयेति । वर्षाकाले भुवं परित्यज्य अप्सु प्लवत इत्यर्थः । एवं त्वं पृथिवीम् आये- षि अतिगच्छसि ऊर्ध्वं गच्छसि । अथ वा अतीति अभीत्यस्यार्थे । अ- भिगच्छसि सर्वां पृथिवीम् । महीति पृथिवीविशेषणम् । महतीम् इत्य- र्थः। अमः स्थाने सुः । अथ वा महीति उत्तरत्र वाता इत्यनेन संबध्यते । किं च मही महान्तो वाता वायवः इह भूमौ नः So A BC ko PVDc. RKV D युज्यमानोग्नि. We with A BC R. ३ B VDC व्यसृष्ट. We with ACkR. 18 वृत्रत्यैव. 280 S. 30 श्रृतः.4S समानस्य. 5s has here a laund for twelve letters.