पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये ___सखायः । आ । शिषामहे । ब्रह्म । इन्द्राय । वज्रिणे। • स्तुषे । ऊ इति । सु । नृडतमाय । धृष्णवे ॥३७॥ हे सखायः सखिभूताः परस्परं प्रेमवन्तः वयं वज्रिणे वज्रोपेताय । अ- नेन अतिशयितवीर्यत्वम् अस्य उक्तं भवति तेन च तस्य अवश्ययष्टव्य- ताव1गम्यते । तादृशाय इन्द्राय देवाय ब्रह्म परिवृढं कर्म आ शिषामहे आशास्महे । कर्तुम् इति शेषः। आङः 2शासु इच्छायाम् । ले- टि आडागमः । “शास इदङ्हलोः" इति विहितम् इत्वम् अत्र व्यत्य- येन भवति । “शासिवसिघसीनां च" इति षत्वम् । अथ वा अयम अर्थः । सखायो वयम् । यज3माना इति शेषः । अस्मिन् पक्षे सखायः इन्द्रस्य सखिभूता इत्यर्थः । तत्सखित्वं च हविःप्रदानाभिमतफ- लमदाना4भ्याम् इति मन्तव्यम् । उ अपि च नृतमाय नेतृतमाय । नृ- णां मध्य इति शेषः । सर्वेषां देवानां मुख्यायेत्यर्थः । धृष्णवे धर्षकाय शत्रूणां प्रच्यावकाय एवंरूपाय इन्द्राय तत्प्रीणनाय स्तुषे स्तौमि । अथ वा एकमेव वाक्यम् । उक्तविशेषणोपेताय इन्द्राय स्तुषे स्तोतुम् ।ष्टुञ् स्तुतौ । तुमर्थे क्सेप्रत्ययः । ब्रह्म स्तुतिसाधनं मन्त्रजातम् आ शिषामहे इच्छाम इति योजना ॥ अष्टमी॥ शवसा ह्यसि श्रृंतो वृत्रहत्येन वृत्रहा। मधैर्मघोनो अति शूर दाशसि ॥ ३ ॥ शव॑सा । हि । असि । श्रुतः । वृत्रहत्येन । वृत्रडहा। मघैः । मघोनः । अति । शूर । दाशसि ॥ ३ ॥ पूर्वमन्त्रे वज्रिणे ब्रह्म आ शिषामह इत्युक्तम् । अनेन मन्त्रेण तस्य महत्त्वं वर्णयन् स्वाभिमतम् आशास्ते । हे इन्द्र वृत्रहा वृत्रस्य 5हन्ता १ A श्रितो. C श्रिता clhanged to शृतो. B P Vतो. We with BK Pv Dr. २"दा- ससि. fenitli A BCK PRV Dc. ३P अस्ति ।. ४P शृतः. CP श्रितः!. 15 ताचगम्यते. शसु.3Shas वयं repeated after यजमाना. 48 प्रदा- भ्या. हन्तः .