पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू.१.] ५४१ अष्टादशं काण्डम् । कत्रयप्रकाशकं तेजः अदधुः स्थापितवन्तः । एवं मासि मास्यते परिमी- यत इति माश्चन्द्रः । “पहन्नोमास्" इत्यादिना मासशब्दस्य मास्भावः । तस्मिन 1अक्तून् व्यंजकान् तमोनिवर्तकान् रश्मीन् अग्नेः2 सकाशाद् आहृत्य देवाः स्थायितवन्तः । यद्वा अक्तवो रात्रयः । चन्द्रमसि रात्रीः [स्थापितवन्तः] । यस्माद् एवं तस्माद् द्योतनिम् द्योत- मानम् अग्निं तौ चन्द्रसूयौं अजस्रम् सततं परि चरतः ॥ षष्ठी ॥ यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म। मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत् ॥ ३६ ॥ यस्मिन् । देवाः । मन्म॑नि । समऽचरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म। मित्रः । नः । अत्र । अदितिः । अनागान् । सविता । देवः । वरुणाय । वोचत् ॥ ३६॥ यस्मिन् मन्मनि मन्तव्ये स्थाने वरुणाख्ये देवाः यष्टव्याः संचरन्ति । कीहशि स्थाने । अपीच्ये । अन्तर्हितनामैतत् । अन्तर्हिते स्थाने । अस्य वरुणस्य तत् स्थानं न वयं विद्म न जानीमः । [अत्र] अन्तर्हितस्थाने3 स्थिताय देवसंचारास्पदाय वरुणाय नः अस्मान् अनागान् अनागसः स- विता देवः अदितिः देवमाता द्यौः 4मित्रश्च हे अग्ने त्वदनुग्रहाद् वोचत् ब्रवीतु । वोचद् इति प्रत्येकं संबध्यते ॥ सप्तमी॥ साय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे । स्तुष ऊ षु नृतमाय धृष्णवे ॥ ३७ ॥ १BV DC विद्य. We with AC KR. २१ व्ययम् ।. ३ Sayanat's text lns वो lic षु as in Rigveda (VIII. 2.4.1), but the word is not tound in ABC KRV PPJ De, nor im Sayana's commentary. 18 अक्तूनव्यंजकान्. 25 अग्निना. 35 °स्थान. 45 सविता च.