पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ अथर्वसंहिताभाष्ये पूर्वत्र “सलक्ष्मा यद् विषुरूपा भवाति" [२] इत्यत्र यमेन स्व- सृभूताया यम्याः या संभोगमार्थना निराकृता तां स्मारन्नाह । अत्र अस्मिन् । कृते सतीति शेषः । यद्वा अत्र यम्याः संभोगविषये अमृतस्य अमरणस्य यमस्य नाम नामधेयं दुर्मन्तु दुर्मननं दुर्वचम् । भवतीति शेषः । कथं भवतीत्याशक्य तत्र कारणम् आह सलक्ष्मेति । यत् यस्मात् कारणात् यमस्य यमीम् इच्छतः । अथ वा यत् यस्मै संभोगम् अङ्गी- कुर्वते यमाय इति व्याख्येयम् । सलक्ष्मा समानोदरा स्वसा यमी संभो- गानन्तरं विषुरूपा भिन्नरूपा भार्यारूपा भवाति भवेत् । अतः स्वभगिनी- भर्तेति यमस्य दुर्वचं नाम भवेद् इत्यर्थः ॥ तथा सति यश्च पुमान् यम- स्य राज्ञो नाम सुमन्तु सुवचं नाम मनवते मनुते स्तौति । मनु अवबोधने । लेटि तनादित्वाद् उप्रत्ययः । “लेटोडाटौ” इति अडाग- मः। आगमस्य अनुदात्तत्वेन विकरणस्वरः । तं स्तोतारम् हे ऋष्व दर्शनीय अग्ने त्वम् अप्रयुच्छन अमाद्यन् विस्मरणम् अकुर्वाणः पाहि रक्ष । एवं यमस्य निन्दानुकीर्तनदोषपरिहारप्रार्थनारूपेण अग्नेः स्तुतिः ॥ पञ्चमी॥ • यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । सूर्ये ज्योतिरदधुर्मास्यक्तून्1 परि द्योतनिं चरतो अजस्रा ॥ ३५ ॥ यस्मिन् । देवाः । विदथे । मादयन्ते । विवस्वतः । सदने । धारयन्ते । सूर्ये । ज्योतिः । अदधुः । मासि । अक्तून् । परि । द्योतनिम् । चरतः । अजस्रा ॥ ३५ ॥ यस्मिन् अग्नौ सति यज्ञनिर्वर्तकत्वेन अग्नौ विद्यमाने सति देवा इ- न्द्राद्याः विदथे यज्ञे मादयन्ते माद्यन्ति । यस्मिन् सति मनुष्या विवस्व- तः सूर्यस्य सदने स्थाने सूर्यलोके धारयन्ते वर्तन्ते । कर्मफलम् उपभु- ञ्जानाः सुखेन अवतिष्ठन्ते । 3येन वा अग्निना देवाः सूर्ये ज्योतिः लो- PAR have no kumya. C मास्यक्तन्परि. We with Bkv Dc. २ मासि।. 18' संभोगा. Shas स्तो for स्तौति. 38 एन.