पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰१. सू०१.] ५४१ अष्टादशं काण्डम् । खाता नित्यः अविनाशी वाचा स्तुतिरूपया यजीयान् अतिशयेन यष्टा यष्टव्यो वा । उक्तमहिमोपेतः सन हव्यं वहेति संबन्धः ॥ इत्यष्टादशकाण्डे प्रथमेनुवाके तृतीयं सूक्तम् ॥ चतुर्थसूक्ते प्रथमा ॥ अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे। अहा यद् देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥३१॥ अर्चामि । वाम् । वर्धाय । अपः । घृतस्नू इति घृतऽस्नू । द्यावाभूमी इति । __ शृणुतम् । रोदसी इति । मे। अहाँ । यत् । देवाः । असुऽनीतिम् । आयन् । मध्वा । नः । अत्र । पि. तरा । शिशीताम् ॥ ३१ ॥ हे घृतस्न्नू उदकस्य 1सारयित्र्यौ द्यावापृथिव्यौ वाम् युवयोः अपः कर्म वर्धाय अभिवृद्धये । वृधेर्घञन्तत्वाद् आद्युदात्तः। अर्चामि स्तौमि । तदर्थम् हे द्यावाभूमी द्यावापृथिव्यौ रोदसी रोधयित्र्यौ द्यावा- पृथिव्योर्मध्ये सर्वेषां प्राणिनां निरोधात् । अथवा रोदयित्र्यौ वृष्टिफलयोः प्रतिबन्धेन । एवंरूपे द्यावापृथिव्यौ मे मम शृणुतम् । स्तुतिम् इति शेषः ॥ अथ परोक्षम् आह । यत् येषु अहा अहस्सु देवाः । दीव्यतिरत्र स्तु- त्यर्थः । युवयोः स्तोतारः ऋत्विजः असुनीतिम् असूनां बलानां नयनम [आयन्] अगच्छन् स्वकीयं बलं यज्ञार्थम् अकुर्वन् । अत्र एषु दिवसेषु पितरा पितरौ मातापितरौ द्यावापृथिव्यौ नः अस्माकं मध्वा। द्वि- तीयार्थे तृतीया g। मधु उदकं शिशीताम् 2संस्कुरुतां प्रयच्छताम् । यद्वा मध्वा मधुना उदकेन नः अस्मान् शिशीताम् संस्कुरुताम् । उद- कमदानेन वर्धयतास्3 इत्यर्थः । अग्निसाहचर्याद् अनयोः स्तुतिः। शि- शीताम् इति । शो तनूकरणे । लोटि छान्दसं रूपम् ॥ १BkR घृतम्मू. D घृत corrected to घृतम्. We with CV. २B देवा. R देवा ( देवा ?). V देवा. Dc °देवा correcter to देवा. We with Kc. ३P अर्धाय ।. ४ P आपः I. CP आपः।. ५CP रोदसी .. 18जारयियो. 28 सुस्वस्कुरुताम्. 35 वर्षयतम्.