पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये द्वितीया॥ · स्वावृग् देवस्यामृतं यदी गोरतो जातासौ धारयन्त उर्वी। विश्वे देवा अनु तर ते यर्जुर्मुर्दुहे यदेनी दिव्यं घृतं वाः ॥ ३२ ॥ स्वावृक् । देवस्य । अमृतम् । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति । विश्वे । देवाः । अनु । तत् । ।ते । यजुः । गुः । दुहे । यत् । एनी। दिव्यम्। घृतम् । वाः ॥ ३२ ॥ देवस्य योतमानस्य अग्नेः स्वावृक् सुष्टु आवर्जकं सर्वप्राण्यावर्जकं स्वा- धीनकर्तृ अमृतम् अमृतवद् उपकारकम् उदकं यदि यदा गोः रश्मेः सकाशाद् उत्पद्यते अतः अस्माद् अमृताद् वृष्ट्युदकात् जातासः जाता ओषधयः उर्वी उव्यौं महत्यौ द्यावापृथिव्यौ धारयन्ते 1अधारयन्त । भू- मिष्ठानां युस्थानां च प्राणिनां तिलव्रीह्याद्योषध्युपजीवित्वात् तल्लोकनिवा- सिनां धारणेन तद्वारकावोपचारः । किं च यत [यदा] एनी श्येता तव दीप्तिः । "वर्णाद् अनुदात्तात्" इति [2एतशब्दात् ङीप तका- रस्य नकारश्चं]। दिव्यम् दिवि भवं घृतम क्षरद्3 वाः सर्वलोक- च्छादकम् उदकं दुहे दुग्धे हे अग्ने ते तव तद् यजुः । युज्यंत इति यजुः कर्म तत् कर्मजनितम् उदकं विश्वे सर्वे देवा अनु गुः अनुग- च्छन्ति । उदकाभिवृद्धानां व्रीह्यादीनाम् अनुगतिरेव उदकानुगतिरित्यु- च्यते । यद्वा इज्यत इति यजुः । यजिरत्र दानार्थः । तव तद् दानम् उदकविषयं विश्वे सर्वे देवाः । दीव्यतिरत्र स्तुत्य- र्थः । स्तोतार ऋत्विजः अन्वगुः अनुयान्तीति व्याख्येयम् ॥ तृतीया ॥ . किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद । १ . यजुगुर्दुहे. ITe with A BC RV Dr. २ Cr वाः ।, ३ B जगृहे. We with AC RKV Dr. 18' धारयन्त धारयन्त. 28' has in place of this a blank tor about ten letters. BS ias उदकं after क्षरद् also. 4 युज्येत.