पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये उभयोरपि द्विवचनत्वम् । द्यावापृथिव्यौ । ह इति प्रसिद्धौ । प्र- तमे. ह मुख्ये खलु [सत्यवाचा] सत्यवाचौ सत्यस्तुतिके । सर्वदेवमनु- ष्याद्याश्रयत्वात् सर्वोपकारकत्वाच्च तद्विषया स्तुतिरूपा वाक् सर्वापि स- त्यैव विद्यमानगुणैव । ते ऋतेन यज्ञेन निमित्तेन यज्ञार्थम् अभिभावे अभितः 1श्रूयते इति अभिश्रावे स्तोतुः श्रवणयोग्ये भवतः । कदेति उ- च्यते । यत् यदा देवः द्योतमानोग्निः मर्तान् मनुष्यान् यजथाय यागा- य यज्ञार्थै कृण्वन् कुर्वन् होता होमनिष्पादको देवानाम् आह्वाता वा प्रत्यङ् यजमानाभिमुखं स्वम् स्वीयम् असुम् प्रज्ञा यागविषयां बलं वा2 ज्वालालक्षणं. यन् गच्छन् प्राप्नुवन् सीदत् निषीदति । तदा अभिभावे भवत इति संबन्धः ॥ दशमी॥ देवो देवान परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान्। धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥ ३० ॥ (३) देवः । देवान् । परिऽभूः । ऋतेन । वह । नः । हव्यम् । प्रथमः। चिकित्वान् । धूमडकेतुः । समऽइधा । भाःऽऋजीकः । मन्द्रः । होता । नित्यः । वाचा। यजीयान् ॥ ३० ॥ (३) हे अग्ने देवः द्योतमानः प्रकृष्टज्वालस्त्वम् ऋतेन यज्ञेन देवान् यष्ट- व्यान् परिभूः परिभवन् स्वाधीनान् कुर्वन् प्रथमः मुख्यः सन् चिकि- त्वान् एतेत्र यष्टव्या इति जानन् नः अस्माकं हव्यम् हविः वह प्रापय देवान् प्रति 3गमय । अथ अग्निं बहुधा 4प्रशंसति । धूमकेतुः धूमेन प्र. ज्ञायमानः समिधा समिन्धनसाधनेन काष्ठादिना भाऋजीकः भासमान- दीप्तिः प्रकृष्टज्वाला मन्द्रः मोदमानः मादयिता वा होता देवानाम् आ- HABK v De भाऋचीको. We with CR. २ CP वहानः ।. Pवहानः ।. ३P ऋनीकः1. CP ऋचीकः।. NCP नित्यः।. 18 श्रृयते. 28 inserts देवः. 38 पमय for प्रति गमय. 18 प्रशंसन्ति.