पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५९ [अ॰१. सू०१.] १४१ अष्टादशं काण्डम् । अनु सूर्य उषसो अनु रश्मीननु द्यावापृथिवी आ विवेश ॥ ७ ॥ अनु । अग्निः । उषसाम् । अग्रम । अख्यत् । अनु । अहानि । प्रथमः । जातऽवेदाः। अनु । सूर्यः । उषसः । अनु । रश्मीन् । अनु । धावापृथिवी इति । आ। विवेश ॥७॥ अष्टमी ॥ प्रात्यग्निरुषसामग्रंमख्यत् प्रत्यहानि प्रथमो जातवेदाः । प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥ २६ ॥ प्रति । अग्निः । उषसाम् । अग्रम् । अख्यत् । प्रति । अहानि । प्रथमः। जातऽवेदाः। प्रति । सूर्यस्य । पुरुऽधा । च । रश्मीन् । प्रति । द्यावापृथिवी इति । आ। ततान ॥ २ ॥ नवमी॥ द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । देवो यन्मर्तान् यजथाय कृण्वन्त्सीदद्धोत प्रत्यङ् स्वमसुं यन् ॥ २९ ॥ द्यावा । ह । क्षामा प्रथमे इति । ऋते । अभिऽश्रावे। भवतः । सत्यऽवाचा । देवः । यत् । मर्तान् । यजथाय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वम् । असुम् । यन् ॥ २९॥ अत्र. यावापृथिव्यौ यष्टुम् इच्छन् तयोर्यागस्य अग्निसव्यपेक्षत्वाद् अग्निं स्तौति । धावा । “दिवो द्यावा" इति द्यावादेशः । द्यौः तथा क्षामा क्षमा पृथिवी द्यावापृथिव्यौ । व्यवहितप्रयोगश्छान्द- सः । यद्वा 1द्योशब्दस्य द्विवचनं द्यावेति2 । द्यावौ । क्षामा[शब्दस्य द्विव- चनं क्षामेति ] । क्षामे । द्वन्द्वस्य युगपदधिकरणवचनावात परस्परापेक्षया ___{ Cr ऽसावे । 18' धौ. 28 inserts च after वेति.