पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४ अथर्वसंहिताभाष्ये त्वोपचारः । ते देवते आ वह यज्ञार्थम् । किं च त्वं देवानां संघे मा-1 किरप भूः मा भूः मा गच्छ । किं तु इह अस्मदीये यागगृह एव स्याः भव । सर्वकर्मार्थं सर्वदा संनिहितो भवेत्यर्थः । यद्वा देवानां म. ध्ये एकोपि देवो माकिरप भूः अप भूत अपगतो मा भूत् । किं तु सर्वोपीह स्याः स्यात् । “तिडां तिङो भवन्ति" इति [प्रथमपु- रुषस्थाने मध्यमः] ॥ . षष्ठी॥ यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र । रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥२६॥ यत् । अग्ने । एषा । समऽइतिः । भवाति । देवी । देवेषु । यजता । यजत्र । रत्ला । च । यत् । विऽभासि । स्वधाऽवः । भागम् । नः । अत्र । वसुड - मन्तम् । वीतात् ॥ २६॥ हे यजत्र यष्टव्य अग्ने यत् यदा एषा पुरोभाविनी समितिः समाजः । संहतिरित्यर्थः । भवाति भवति । स्तुतानां हविषां च समितिर्यदा भव- नि । कीदृशी । देवी दैवी देवसंबन्धिनी दीप्ता वा । कुत्र । देवेषु म- ध्ये । पुनः कीदृशी सा । यजता यष्टव्या पूजनीया । हे स्वधावः अ- न्नवः अन्नवन् अग्ने यत यदा च रत्ना रत्नानि रमणीयानि धनानि वि. भजासि स्तोतृभ्यो विभजसि प्रयच्छसि अत्र विभागसमये नः अस्माक- मपि वसुमन्तम् प्रभूतेन वसुना युक्तं भागम् अंशं वीतात् । वी गत्यादिषु । अत्र गत्यर्थः । वीहि । प्रयच्छत्यर्थः ॥ “अन्वग्निः" इति सप्तमी “प्रत्यग्निः" इति अष्टमी च पूर्वत्र व्या- ख्याते [७.८७.४,५] । तयोः पाठस्तु । सप्तमी ॥ ___ अन्वमिरुषसामग्रमख्यदन्वानि मथमो जातवेदाः । १Pसंवाति ।. We with PCP. 18' माकिर्भः for माकिरप भ. 2 यच्छ. 3S has a lacuna for seven or eight letters here.