पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०१.५४१ अष्टादशं काण्डम् । ५७ हे अग्ने ते तव सुमतिम् शोभनां बुद्धिम् अनुग्रहलक्षणां यो मर्तः मरणधर्मा मनुष्यो यजमानः अख्यत् कथयति परस्मै । स्वयं प्राप्नो भ- वतीत्यर्थः । हे सहसः सूनो बलस्य पुत्र बलेन मथ्यमानो जायत इति तादृशाग्ने स वयानुगृहीतो यजमानः अभिं आभिमुख्येन सर्वतः प्र शृ- ण्वे प्रकर्षेण श्रूयते । शृणोतेर्लिटि1 “छन्दस्युभयया" इति लिटः सार्वधातुकत्वात् "श्रुवः शृ च" इति श्रुमात्ययः । सर्वत्र विश्रुतो भवति । किं च [स] त्वयानुगृहीतो यजमानः इषम् सर्वैरेषणीयम् अन्नं दधानः धारयन बह्वन्नः सन् तथा अश्वैः बहुभिर्वहमानः अश्वैरुह्यमानो रथगामी भूत्वा द्युमान् दीप्तिमान् अमवान् बलवान् सन् द्युन् । अह- र्नामैतत् । बहून दिवसान् आ भूषति आभवति । सर्वम् अधिष्ठाय व- र्तते । यद्वा भूषति बुभूषति द्युमान् अमवांश्च भवितुम् इच्छति। भ- वते- सनि “सनि ग्रहगुहोश्च" इति इडभावः । "इको झल्" इति कित्त्वाद् गुणाभावः । सर्वविधीनां छन्दसि विकल्पितत्वाद् 2द्वित्वाभावः ॥ पञ्चमी ॥ श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रचममृतस्य द्रविलुम्। आ नो वह रोदसी देवपुत्रे माकिर्देवानाम् भूरिह स्याः ॥ २५॥" श्रुधि। नः । अग्ने। सदने । सधऽस्मे । युक्ष्व । रथम् । अमृतस्य । द्रविलुम् । आ। नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवा- नाम । अप । भूः । इह । स्याः ॥२५॥ हे अग्ने त्वं नः अस्माकम् आह्वानं श्रुधि शृणु । कुत्रेति उच्यते । सद- ने सीदत्यति सदनं गृहं तत्र । कीदृशे सधस्थे सहस्थाने । x“स- ध मादस्पयोश्छन्दसि” इति सहस्स 3सधादेशः । देवानां सा- धारणे यागगृहे । तदर्थम् अमृतस्य उदकस्य द्रविलुम् द्रावकं रथं यु- क्ष्व योजय । किं च वं नः अस्माकम् अर्थाय रोदसी द्यावापृथिव्यौ । कीहश्यौ । देवपुत्रे देवाः पुत्रा ययोस्ते तादृश्यौ तदुपजीव्यत्वात् तत्पुत्र- ___1Shusa space for fifteen or sixteen letters after लिटि. 28 गुणा for द्वित्वा. 38 सहा for सधा.