पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२३ ॥ [अ०५. सू०३५.] ५७९ एकोनविंशं काण्डम् । तृतीया ॥ दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् । तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोसि जङ्गिडः ॥ ३ ॥ दुःऽहार्दः । सम्ऽघोरम् । चक्षुः । पापऽकृत्वानम् । आ । अगमम् । तान् । त्वम् । सहस्रचक्षो इति सहस्रऽचक्षो । प्रतिऽबोधेन । नाशय । परिऽपानः । असि । जङ्गिडः ॥ ३ हे जङ्गिडमणे त्वं दुर्हार्दः दुष्टहृदयस्य शत्रोः संघोरम् अत्यन्तरं च. क्षुः । नाशयेति उत्तरत्र संबन्धः । एवं पापकृत्वानम् हिंसादिलक्षणस्य पापस्य कर्तारम्। "राजनि युधिकृतः" इति राजोपपदात् क- रोतेर्विहितः क्वनिप् पापोपपदादपि अत्र व्यत्ययेन निष्पन्नः । एवं- लक्षणम् आर्गतम् हन्तुं प्राप्तं च नाशय । तान् उक्तलक्षणान् सर्वान् हे सहस्रचक्षो बहुधा द्रष्टः । चक्षेरौणादिक उप्रत्ययः ४ ।अ- नेन बाधकहननविषयपरिज्ञानम् अस्योक्तं भवति । तादृशस्त्वं प्रतिबोधेन प्रतिकूलया तव बुद्ध्या । यद्वा 1तत्कृतापराधोद्धाटनेन नाशय ॥ एवंवि- धप्रार्थनाया विषयभावस्तस्य कुत इति तत्राह । जङ्गिडस्त्वं परिपाणोसि परितो रक्षकोसि यतः अतो नाशयेत्यर्थः ॥ चतुर्थी ॥ परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात् परि मा वीरुद्भ्यः । परि मा भूतात् परि मोत भव्याद् दिशोदिशो जङ्गिडः पात्वस्मान् ॥ ४ ॥ परि । मा। दिवः । परि । मा। पृथिव्याः । परि । अन्तरिक्षात् । परि । मा । वीरुतऽभ्यः। १ A B दुर्हादः. २ D; मागम ckranged to °मादभन्. K मादभन्. No srilli A BCD RCs PP3. ३ 8 तास्त्वं. ४ BC DRSC परि मोत. De परि मोत chtngeel ti) परि

  1. a. We with K De BCDRŠC PJ Ham°. De Hypº changed to #ri. P

J भव्यात्।. We with Kk vf. अ- 18 यत्कृता.