पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1 ४२२ अथर्वसंहिताभाष्ये देवा यं चक्रुर्भैषजमग्रे विष्कन्धदूषणम् ॥१॥ इन्द्रस्य । नाम । गृह्णनाः । ऋषयः । जङ्गिडम् । दुदुः देवाः । यम् । चक्रुः । भेषजम् । अग्रे। विस्कन्धऽदूषणम् ॥१॥ पूर्व ऋषयः अतीन्द्रियद्रष्टारोऽङ्गिराद्या इन्द्रस्य देवस्य नाम गृह्णन्तः उच्चारयन्तो [जङ्गिडम्] जङ्गिडाख्यं मणिम् अतिशयितवीर्यत्वाय रक्षा- कामेभ्यः पुरुषेभ्यो ददुः दत्तवन्तः । तस्माद् इदानींतनैरपि रक्षाबन्धन- समये इन्द्रस्य नाम ब्रुर्वाणैरेव जङ्गिडमणिर्धार्य इत्यभिप्रायः । किं1 च अग्रे सृष्ट्यादौ [देवाः] इन्द्राद्या यं [जङ्गिडं] जङ्गिडाख्यौषधिं विष्कन्ध- भेषजम्2 विष्कन्धाख्यस्य महारोगस्य औषधं चक्रुः कृतवन्तः । अतस्तं विष्कन्धभेषजार्थं प्रयुझ्याद् इत्यर्थः । स नो रक्षत्विति उत्तरत्र सं- बन्धः ॥ द्वितीया ॥ स नो रक्षतु जङ्गिडो धनपालो धनेव । देवा यं चक्रुबाह्मणाः परिपाणमरातिहम् ॥२॥ सः । नः । रक्षतु । जङ्गिडः । धनऽपालः । धनीऽइव । देवाः । यम । चक्रुः । ब्राह्मणाः । परिऽयानम् । अरातिऽहम ॥२॥ स उक्तविशेषणविशिष्टो जङ्गिडो मणिः नः अस्मान् रक्षतु । तत्र दृष्टान्तः । धनपालः लोके कस्यचिद् राज्ञो धनाध्यक्षो [धनेव] धना- नि यथा महता प्रयत्नेन रक्षति तद्वत् । यं जङ्गिडं देवा ब्राह्मणाश्च । ब्राह्मणा महर्षयः । यद्वा देवाः3 श्रुताध्ययनादिना द्योतमाना ब्राह्मणा भृग्वङ्गिरःप्रभृतयः परिपाणम् परितो रक्षकम् अरातिहम् अरातेः शत्रो- र्हन्तारं चक्रुः । स नो रक्षत्विति संबन्धः ॥ R faktyº. We with. ABCDÁSV De Cs. APPJधनाय 15 किंच यः किंच अग्रे सृएयादौ यमिंद्राधाः जंगिडाख्यमोषधि विकंघभेषजं. Siyarpit's text, however, is : देवा यं चक्रुर्भेषजमग्रे विष्कंधदूषणं. 38 देवाचा.. 2 S