पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०५, सू०३५.] ५७९ एकोनविंशं काण्डम् । ४२१ उग्रः । इत् । ते । वनस्पते । इन्द्रः । ओज्मानम् । आ । दधौ । अमीवाः । सर्वाः । चातयन् । जहि । रक्षांसि । ओषधे ॥९॥ हे वनस्पते जङ्गिड त्वम् उग्र इत् उग्र एव अतिशयितवीर्य एव ना- त्र विचारणा । यतः ते त्वयि इन्द्रो देवः ओज्मानम् ओजो बलम् आ दधौ स्थापितवान् । अतस्त्वम् हे [ओषधे] वनस्पते सर्वा अमीवाः साध्यासाध्यविभागम् अकृत्वा सर्वानपि रोगांश्चातयन् नाशयन् रक्षां- सि । रक्षितव्यम् अस्माद् इति रक्षः । भयोपादानभूतान् राक्षसान् जहि धातय ॥ दशमी ॥ आशरीकं विशरीकं बलासं पृष्ट्यामयम् । तक्मानं विश्वशारदमरसां जङ्गिडकरत् ॥ १०॥ आऽशरीकम् । विऽशरीकम् । बलासम् । पृष्टिऽआमयम् । तक्मानम् । विश्वऽशारदम् । अरसान् । जङ्गिडः । करत ॥ १० ॥ आशरीकम् सर्वतो हिंसकम् एतन्नामानं रोगं तथा विशरीकम वि- शेषेण हिंसकम् एतनामानं च बलासम बलस्य असनकर्तारं बलक्षय- कारकम् एतन्नामानं पृष्ट्यामयम् सर्वाङ्गव्यापिनम् एतन्नामानं च रोगं तक्मानम् कृच्छ्रजीवनकर्तारं यस्मिन् सति कृच्छ्रेण जीवनं भवति तादृशं विश्वशारदम् सर्वस्य सर्वदा वा विशरणकर्तारम् एवम् अन्यानपि रो- गान् जङ्गिडो मणिः अरसान् पीडनासमर्थान् करत करोतु ॥ [इति ] पञ्चमेनुवाके प्रथमं सूक्तम् ॥ 'इन्द्रस्य नाम" इति द्वितीयं सूक्तम् । तस्य जङ्गिडमणिबन्धने पू- सूक्तेन सह उक्तो विनियोगः ॥ तत्र प्रथमा॥ इन्द्रस्य नाम गृह्णन्त ऋषयो जङ्गिडं ददुः । १Pउम्र २ A D E Cs पृष्टयामयम्. BS पृष्टयामियम्. V पृष्ठयामयम्. We with C Ê DPP J. DP We with ABCRŠ V DC.