पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२० अथर्वसंहिताभाष्ये नातिक्रामन्ति । सर्वेष्वपि प्रयोगेषु अतिशयितवीर्यत्वाद् इति भावः । एवं या ओषधयो नवाः नूतनाः सन्ति ता अपि त्वा वां न तरन्ति अतिशयितुं न प्रभवन्ति । कुत एतद् इति तत्राह । हे जङ्गिड1 2यत- स्त्वं विवाधः बाधयतीति वाधः विशेषेण शत्रुरोगादेर्बाधकः3 उग्रः उद्भू- र्णवलः परिपाणः परितः पाता सुमङ्गलः सुष्ठु मङ्गलकारी । अनेन श- त्र्वादिजयभयरक्षणलक्ष्मीकरवलक्षणगुणा अस्योक्ता भवन्ति ॥ अष्टमी॥ अथोपदान भगवो जङ्गिडामितवीर्य । पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥४॥ अथ । उपऽदान । भगऽवः । जङ्गिड । अमितऽवीर्य । पुरा । ते । उग्राः । ग्रसते । उप । इन्द्रः। वीर्यम् । ददौ ॥ ६ ॥ अथशब्दः अभिमुखीकरणार्थः । हे उपदान उपादीयते स्वीक्रियेत कृत्यानिर्हरणादिव्यापारेष्विति उपदानः । तस्य संबोधनम् । हे उपदान हे भगवः भगवन् अतिशयितमाहात्म्य हे अमितवीर्य अपरिच्छिन्नसाम- र्थ्य हे जङ्गिड ते4 त्वाम् उग्राः उद्भूर्णवलाः प्राणिनः पुरा ग्रसते भक्ष- यिष्यन्तीति विज्ञाय इन्द्रः यथा त्वाम् उग्रा न भक्षयन्नि तथा वीर्यम् परैरनभिभाव्यं सामर्थ्यम् उप ददौ प्रादात । तस्माद् 5इन्द्रेण दत्तवीर्य- त्वाद् अतिशयितवीर्यस्वमसीति स्तुतिः ॥ नवमी॥ उग्र इत ते वनस्पत इन्द्र ओज्मानमा दधौ । अमीवाः सर्वाश्चातयञ्जहि रक्षास्योषधे ॥ ९॥ १ A BC K k RSV DCs अथो पदा न भगवो जं. D अथो पदा न भगवो #. PF J अथो इति । पदा। न।. We with Sayana, and accents accordingly. २ Dदधौ. ३P मगवः। PJ भगवः ।. ४PP जंगिड । ५ PJ उग्रा !. Was पुरा त उग्रा प्रसंत उ. Fat the correct reading ? A Batam. We with CDRRSV De Cs. 1 Sce note 4 on the previons page. 28' omits rain Tafa, reading trapt. 38 2tstrau. S' car for à, though its text has go a 8°. 5 S' omits of in इन्द्रेण.