पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१९ [अ०५. सू०३४.] ५७० एकोनविंशं काण्डम्। षष्ठी ॥ त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि । तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥ ६ ॥ त्रिः । त्वा । देवाः । अजनयन् । निऽस्थितम् । भूम्याम् । अधि । तम् । ऊं इति । त्वा । अङ्गिराः । इति । ब्राह्मणाः । पूर्व्याः । विदुः ॥ ६ ॥ इदानीं भूम्याम् अधि । ४. अधिः सप्तम्यर्थानुवादी । भू- म्यां तिष्ठ1न्तं त्वा त्वां देवाः इन्द्राद्याः त्रिः त्रिवारम् अजनयन् उदपा- दयन् । त्रिषु लोकेषु अवस्थानायेति भावः । अथ वा एक2द्विवारप्रयत्ने- न अनुत्पद्यमानं त्वां त्रिवारम् अजनयन् । अनेन त्यन्तप्रयोजकत्वेन अवश्यम् उत्पादनीयत्वम् उक्तं भवति । तं तादृशं प्रयत्नेन उत्पादितं [त्वा] त्वाम् अङ्गिरा इति । ब्रह्मणोऽङ्गसंभूतो रसः अङ्गिर3आख्यो म. हर्षिः । [यद्वा] अङ्गिरा अङ्गाराः । “येङ्गारा आसंस्तेङ्गिरसोभवन्"4 इति ब्राह्मणम् [ऐ ब्रा० ३.३४] । एवंनामा महर्षिरिति पूर्व्याः पूर्वे भवा ब्राह्मणा महर्षयो विदुः ब्रुवते ॥ सप्तमी ॥ न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः । विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥ ७ ॥ न । त्वा । पूर्वा- । ओषधयः । न । त्वा । तरन्ति । याः । नवाः । विऽबाधः । उग्रः । जङ्गिडः । परिऽपानः । सुऽमङ्गलः ॥ ७॥ हे जङ्गिड त्वा त्वां पूर्वाः पूर्व सृष्ट्यादावुत्पन्ना ओषधयो न तरन्ति ABCDKÅRŠ V De Cs ger, and PŮJ TI. २ A B C D E SC तमु त्याङ्गिरा. D¢ तमु त्वांगिरा, changed to तमु त्वांगिरा. P त्वा । आंगिराः।. J त्वा । अंगि- T: 1. We with K Ř V D: and Ê. * DRCs om. the visarga in rat: We with A ŚCKSVD. Pastal. We with Ø J. 1 SAyana's text: तिष्ठतं भूम्यामधि. एकं for एक°. 38 अंगिराख्यो. जंगिल. Sayana's text is: विबाध उग्रो जंगिल परि". 4 S