पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१४ अथर्वसंहिताभाष्ये अथो सहखाञ्जङ्गिडः प्र ण आयूंषि तारिषत् ॥ ४ ॥ कृत्याऽदूषणः । एव । अयम् । अथो इति । अरातिऽदूषणः । अयो इति । सहस्वान् । जङ्गिडः । प्र । नः । आयूंषि । तारिषत् ॥४॥ अयं जङ्गिडो मणिः [कृत्यादूषणः] कृत्यायाः परोत्पादिताया दूषणः निराकर्तैव । [दुष वैकृत्ये] । अस्मात् [णिचि] कर्तरि करणे वा ल्युट् । “[ दोषो णौ” इति ऊकारादेशः] ।अवधारणार्थ एव- शब्दः । अथो अपि च अरातिदूषणः शत्रुच्यावनसाधनः अथो अपि च अयं जङ्गिडः सहस्वान् उक्तव्यापारोचितबलोपेतः । स तादृशो म- णिः कृत्यादूषणादिकं कृत्वा न आयूंषि प्र तारिषत् । प्रपूर्वस्तर- तिर्वर्धनार्थः । वर्धयतु ॥ पञ्चमी॥ स जङ्गिडस्य महिमा परि णः पातु विश्वतः । विष्कन्धं येन सासहं संस्कन्धमोज़ ओज॑सा ॥ ५ ॥ सः । जङ्गिडस्य । महिमा । परि । नः । पातु । विश्वतः । विस्कन्धम् । येन । संसह । समऽस्कन्धम् । ओजः । ओजसा ॥ ५ स तादृशः उत्तरार्धेऽभिधीयमानलक्षणो [जङ्गिडस्य] महिमा तन्मह- त्वं नः अस्मान् विश्वतः सर्वस्माद् भयजातात् परि पातु परितो रक्षतु । कोसौ महिमेति तमाह । 1यो महिमा विष्कन्धम् विश्लिष्टस्कन्धम् एवंना- मानं वातविशेष महारोगम् ओजसा संह तस्य यद् विष्कन्धीकरणसाम- र्थ्यम् अस्ति तेन सह अपुनरुद्भवं नाशयति । यश्च महिमा संस्कन्धम् । येन रोगेण स्कन्धः संनतः संलग्नो भवति स रोगः संस्कन्धः । तं म- हारोगं वातलक्षणम् ओजः महिमा ओजसा सह रोगस्य सामर्थ्येन सह नाशयति । स महिमेति पूर्वत्र संबन्धः ॥ BCRCs 1. We with DŘSV De. २ येन सासह. A येन सासहे. BC RCs येन सासह. D येन सासह. Kv येन सासह corrected from येन सासह. De येन सासह changed to येन सासह. PJ ससह । ससह । corrected into ससह । 1 Sayana's text of the second half: विष्कंधमोजसा सह संस्कंधमोज ओजसा. १