पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१६ अथर्वसंहिताभाष्ये र्वेभ्यो भयेभ्यः पालयिता भवसि । पिच्छादित्वाद् इलच् । यद्वा जङ्गम्यते शत्रून् बाधितुम् इति जङ्गिडः । गमेर्यङ्ज्गन्ताद् रूपसिद्धिः । अथ वा जने1र्जयतेर्वा डप्रत्यये ज इति भवति । जं गिरतीति जङ्गिरः । [कपिलकादित्वाद् लत्वम् । पूर्वपदस्थस्य सुपो लुगभावश्छान्दसः । ] खच् प्रत्ययो वा द्रष्टव्यः ४ ॥ अथ परोक्षम् अभिधीयते । अस्माकं यद् द्विपात् यत् पादद्वयोपेतं मनुष्यादिलक्षणम् अस्ति तथा चतुष्पात् पादचतुष्टयोपेतं गोमहिषादिलक्षणम् अस्ति । उभयत्र “संख्यासु- पूर्वस्य" इति लोपः समासान्तः । तत् सर्वं [जङ्गिडः] जङ्गि- डाख्यो मणी रक्षतु पालयतु ॥ द्वितीया ॥ यो गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये। सर्वान् विनक्तु तेजसोरसां जङ्गिडस्करत् ॥ २ ॥ याः । गुत्स्यः । त्रिऽपञ्चाशीः । शतम् । कृत्याऽकृतः । च । ये। सर्वान् । विनक्तु । तेजसः । अरसान् । जङ्गिडः । करत् ॥ २ ॥ या गृत्स्यः गर्धनशीला यास्त्रिपञ्चाशीः त्र्यधिकपञ्चाशत्संख्याकाः कृत्याः सन्ति। पूरणार्थे डट् । डित्वात् टिलोपः । “टिड्डाणञ्" इति ङीप् । तथा ये शतम् शतसंख्याकाः कृत्याकृतः । कृत्या नाम मृद्दार्वादिना निर्मितपुतल्यादि । तासां] कृत्यानां कर्तारः सन्ति तान् सर्वान् [जङ्गिडः] जङ्गिडाख्यौषधिनिर्मितो मणिः विनष्टतेजसः हतवीर्यान् स्वव्यापारे कुण्ठितशक्तीन् । तदेवोच्यते अरसान् इति । [अरसान्] रस- १ . ज्यागृत्स्यस्त्रि'. R यागृत्स्यस्तृ". A B V जागृत्स्यस्त्रि. C जागृत्स्यस्त्रि. D य्यागृत्स्य- स्त्रि. kD ज्यागृत्स्यस्त्रि. C यागृत्स्यस्तृ'. PPJ जागृत्स्यः । त्रिपञ्चऽअशीः ।. We wiili Saiyana and accents accorilingly, २V विनिष्टतेजसा . A D भनक्ति तेजसो'. BCR SC विनततेजसो ( clhangeel to भिनक्ति तेजसो' in 3). k मिनक्तु तेजसो correcteel into मिनक्तु नेसा', D: विनतु changed to मिनतु. P विनतऽ । corrected from विन- क्ति. P विनक्त । claanged from विनतु. J विनक्तऽ १. We with the original reading सन्ति । of De and witly the correction of . 18' जनयजतेवा.