पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" [अ०५. सू०३४.] ५७. एकोनविंशं काण्डम् । ४१५ र्याणि शत्रुजयादीनि कृणवत् कुर्याः । अतः दर्भं वीर्यसाधनं विभ्रत् धारयस्त्वम् आत्मना निश्चलेन युक्तः सन्1 । अथवा आत्मना आत्मनि बिभ्रत् मा व्यथिष्ठाः व्यथां मा कुरु । शत्रवः पराभविष्यन्तीत्येवं मनसि व्यथां मा कार्षीरित्यर्थः । अथ2 अपि च3 वर्चसा शरीरबलेन अन्यान् अधिष्ठाय सूर्य इव स यथा लोकान् स्वतेजसा आलोकेन प्रकाशयति तद्वत् प्रदिशः प्रकृष्टाः प्रागादिचतस्रो दिशः आ भाहि प्रकाशय ॥ चतुर्थेनुवाके सप्तमं सूक्तम् ॥ चतुर्थोनुवाकः समाप्तः ॥ पञ्चमेनुवाके द्वादश सूक्तानि । तत्र “जङ्गिडोसि” इति प्रथमद्विती- याभ्यां सूक्ताभ्यां “वायव्यां वातवात्यायाम' इति [न क° १७.] वि- हितायां वायव्याख्यायां महाशान्तौ जङ्गिडवृक्षनिर्मितं मणिं बध्नीयात् 4। तथा नक्षत्रकल्पे सूत्रितम् । “वाताजातः[ ४.१०] इति शङ्खं वारुण्याम् । जङ्गिडोसि जङ्गिडो रक्षितासि [१९.३४] इति जङ्गिडं वायव्यायाम्" इति [नक° १९.] ॥ तत्र प्रथमा ॥ जङ्गिडो सि जङ्गिडो रक्षितासि जङ्गिडः । द्विपाच्चतुष्पादस्माकं सर्वै रक्षनु जङ्गिडः ॥१॥ जङ्गिडः । असि । जङ्गिडः । रक्षिता । असि । जङ्गिडः । द्विडपात् । चतुःऽपात् । अस्माकम् । सर्वम् । रक्षतु । जङ्गिडः ॥१॥ जङ्गिडो नाम कश्चिद् ओषधिविशेषः । स च उत्तर5देशे प्रसिद्धः । हे जङ्गिड6 मणे जङ्गिडोसि यतो जातानां कृत्यानां कृत्याकृतां च निर्ग-7 रणकर्तासि अतो जङ्गिड इत्युच्यते । तस्मात् जङ्गिडस्त्वं रक्षितासि स- 1S inserts another विभ्रत् after सन्. 25 अथ. 3S inserts अन्यान् after a again. 13 inserts after this: तथा पिलकादिन्वालत्वम् । पूर्ववदस्यस्य सुपो लुगभावश्छांदसः ॥ note which belongs to the comment on the following verse, where see. Ker'a va on Kausikre 1. 8: ATT artroeni Ft. Därilu in the same place; जङ्गिडोर्जुनः । अचल इति दाक्षिणात्याः. 6 Sû yana's text has: zifiratfe siftet farfe जंगिड. 78 निगिरण. 5 Conf.