पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१४ अथर्वसंहिताभाष्ये तीक्ष्णः अतिनिशितशक्तिः । यस्मै प्रयोजनाय प्रयुज्यते तस्य आशु- कारीत्यर्थः । राजा सर्वासाम् ओषधीनां सर्वेषां मणीनां वा राजव- च्छ्रेष्ठः विषासहिः विशेषेण सोढा शत्रुमर्षकः रक्षोहा राक्षसानां हन्ता विश्वचर्षणिः विश्वद्रष्टा तथा देवानाम् इन्द्रादीनाम् ओजः ओजःस्था- नीयः । तेषाम् असुरसंग्रामे जयप्रदत्वात् । उग्रम् परैरसह्यं बलम् ब- लस्वरूपम् एतत् रक्षासाधनं 1दर्भाख्यं वस्तु । अथ वा एतत् इदानीम् । अत्र बलसाधने मणौ बलत्वव्यवहारः । तं तादृशं मणिं ते हे रक्षा- काम पुरुष तव बध्नामि । किमर्थम् । जरसे जरापरिहारार्थ स्वस्तये क्षेमाय च बध्नामि ॥ पञ्चमी॥ दर्भेण त्वं कृणवद् वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः । अतिष्ठाया वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥ ५॥ दर्भेण । त्वम् । कृणवत् । वीर्याणि । दर्भम् । बिभ्रत् । आत्मना । मा । व्यथिष्ठाः। अतिऽस्थाय । वर्चसा । अध। अन्यान् । सूर्यःऽइव । आ । भाहि । प्रड- दिशः । चतस्रः ॥ ५॥ हे पुरुष त्वं दर्भेण मणिना 2साधनेन वीर्याणि वीरस्य कर्माणि वी- १ A B C D R S कृणय. J कृणवत् ।. We with k V D• C« P. ABR Csa- चैसैध्यन्या. C वर्चसंध्यन्या. The ध्य in these readings may have lecn a niisrending for an original f, as in most old MSS. the two letters are very similar to cach other. D Kv वर्चसधन्या. 3 वर्चसँधन्या. D वर्चसीधयां correcteel to वर्चसैध्यन्या. Siyana's 1ext: वर्चसौधन्यां. J एद्धि । अन्याम् ।. Pऐधि । अन्याम् ।. Pएधन्याम् corrected from ऐधि । अन्याम् ।. वर्चसा एधि अन्यान् were incaut the Sutinhita-MSS. would have exhibitor TFT, which none of our AISS. read Bexiiles of so usod wonld not be in accordance with its usual use in the Veda: it is usually accompanied by thic predicate in the nominative or the cutive, or is accoupanied by some such adverb as इहैव, सजातैः सह &e; but it is not uscl absolutely us it would be in the present passage. We with Sayana's comincntary, the accents being altered to suit the routing adoptel. 15 दर्भाग्य 28 inserts another त्वं after साधनेन.