पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०३३.] ५७७ एकोनविंशं काण्डम् । ४१३ ताने1व अधरान् निकृष्टान् बलहीनांश्च कृण्वन् कुर्वन् महताम् महत्त्वो- पेतानाम् अतिशयितवीर्याणाम् अन्येषाम् ओषधीनाम् इन्द्रियेण इन्द्रसृ- ष्टेन सामर्थ्येन सहितः सन् आ रोह भुजादिप्रदेशम् अधितिष्ठ ॥ तृतीया ॥ त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रमृषयोभरन्त त्वं पुनीहि दुरितान्यस्मत् ॥ ३ ॥ त्वम् । भूमिम् । अति । एषि । ओज॑सा । त्वम् । वेद्याम् । सीदसि । चारूः। अध्वरे। त्वाम्। पवित्रम्।ऋषयः । अभरन्त । त्वम्। पुनीहि। दुःऽइतानि। अस्मत्॥३॥ हे मणिभूत दर्भ त्वम् ओजसा बलेन भूमिम् अत्येषि अतिगच्छ- सि । तथा चारुस्त्वम्2 अध्वरे ध्वरो हिंसा तद्रहितः अध्वरो यागः । न हि यागं कुर्वन् विनश्यति स्वर्गादिफलसाधनत्वात् । तस्मिन् वेद्यां सीदसि निषण्णो भवसि हविरासादनार्थम् । किं च पवित्रम् शोधकं त्वाम् । “पवित्रं वै दर्भाः । पुनात्येवैनम्” इति श्रुतेः [तै ब्रा० १.३. ७.१] । ऋषयः अतीन्द्रियद्रष्टारः स्वपावनार्थम् अभरन्त आहृतवन्तः । यस्माद् एवं तस्मात् वं दुरितानि दुष्कृतानि अस्मत् अस्मत्तः सकाशात् पुनीहि पावय च्यावय ॥ चतुर्थी ॥ तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः । ओजो देवानां बलमुग्रमेतत् तं ते बध्नामि जरसे स्वस्तये ॥ ४ ॥ तीक्ष्णः । राजा । विऽससहिः । रक्षःऽहा । विश्वऽचर्षणिः । ओजः । देवानाम् । बलम् । उग्रम् । एतत् । तम् । ते । बध्नामि । जरसे। स्वस्तये ॥४॥ १ A Bck R VDC Cs °मृषयोभरतस्त्वं पु. D मृषयोभरतःस्त्वपु. मृषयोभरतस्वं . PPJ HTA: 1. We with Sayana's text and commentary, and accent accordingly. २P ऊर्जः। 18 तामेव, त्वम् for चारुस्त्वम्.