पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स ४१२ अथर्वसंहिताभाष्ये ष्टेत्यर्थः । यद्वा अपां शोषको वा । वीरुधाम् लतादीनां राजसूयम् । राजसूयकर्मवत्प्रशस्त इत्यर्थः । यथा राजसूययागः सर्वेषां राज्ञां स्वामिनः सार्वभौमस्य विषयः । यद्वा 1इतरेषां यागानां मध्ये श्रेष्ठत्वात् प्रशस्तः [तथायं] वीरुधां2 मध्ये प्रशस्तभूत इति राजसूयस्थानीयत्वम् । रा- जसूयसूर्य०" इत्यादिना क्यबन्तो राजसूयशब्दो निपातितः । स तादृशः अयं दर्भः नः अस्मान् विश्वतः परि पातु परितो रक्षतु । स देवः देवसृष्टो मणिः नः अस्मान् आयुषा सं सृजाति संसृजेत् ॥ द्वितीया ॥ घृतादुल्लुप्तो मधुमान् पय॑स्वान् भूमिदृंहोच्युतश्च्यावयिष्णुः । नुदन्त्सपत्नानधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण ॥२॥ घृतात् । उत्ऽलुप्तः । मधुऽमान् । पर्यस्वान् । भूमिऽदृंहः । अच्युतः । च्य- वयिष्णुः। नुदन् । सऽपत्नान् । अधरान् । च । कृण्वन् । दर्भ । आ । रोह । मह- ताम् । इन्द्रियेण ॥ २॥ घृतात् आज्यात् हुतशिष्टाद् 3उल्लुप्तः उल्लिप्तः संपातावनयनेन संर्वतो-4 ऽक्तः । 5“आश्यबन्ध्यामवनयानभक्ष्याणि संपातवन्ति" इति [को०१.७] परिभाषितत्वाद् घृताक्तत्वम् । मधुमान् माधुर्योपेतः पयस्वान् प्रभूतक्षीरो भूमिदृंहः भूम्याः स्वमूलैदृढीकर्ता अच्युतः च्युतिर्नाशस्तद्रहितः बहुधा छिन्नस्यापि पुनःप्ररोहदर्शनात् । च्यावयिष्णुः दृढस्यापि शवादेच्यावनशी- लः एवंगुणोपेत [हे दर्भमणे वं सपत्नान् शत्रून नुदन् सुदूरं प्रेरयन् १ A °पय २ A R °→होच्युत?. KS होच्युत”. KV हमच्युत'. He with BD Ki Vomit the varga in zaraferer:. We with CDR SDC PÞJ. BC Sony ErWe with ADK KRV DC ५ P कृण्वत् । J chunge- कृण्वन् । १० कृण्वत् ।. We with p. 18 दितरपां. 28 वीरुधामाप्रशस्त वीरुधांमध्ये प्रशस्त. 33 हुतशिष्टादुर्लुप्तः. Saiyana's text also तादुर्लुप्तो. 45 सर्वतोप्तः. 58 आश्यबंध्ययायानि for आश्यब- न्ध्या वनयानभक्ष्याणि. KDC.