पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४११ 9 " <4 [अ°४. सू°३३.] ५७७ एकोनविंशं काण्डम्। मुख्यः1 प्रथमभावी वा । अतिशयितवीर्यत्वात् । प्रथम इति मु. ख्यनाम प्रतमो भवतीति निरुक्तम् [नि०२.२२] । एवंभूतः सन् सं बभूव । स तादृशः संभूतः अयं दर्भो नः अस्मान् विश्वतः सर्वतः सर्वाभ्यो दिग्भ्यस्तज्जन्येभ्यो भयेभ्यः परि पातु परिरक्षतु । तेन दर्भमणिना पृतन्यतः पृतनां सेनाम् इच्छतः शत्रोः पृतनाः सेनाः सा- क्षीय अभिभवानि । ५ पृतन्यत इति । पृतनाशब्दात् क्यचि “क- प्यध्वरपृतनस्यर्चि लोपः” इति आकारलोपः । साक्षीयेति । षह अभि- भवे । अस्मात् लिङि “सिब्बहुलं छन्दसि णित्" इति सिप् । णिङ्व- द्भावाद् उपधावृद्धिः ॥ [इति ] चतुर्थेनुवाके षष्ठं सूक्तम् ॥ सहस्रार्घः शतकाण्डः इति सप्तमं सूक्तम् । अस्य याम्यां महा- शान्तौ दर्भमणिबन्धने विनियोगः पूर्वसूक्तेन सह उक्तः ॥ तत्र प्रथमा। सहस्रार्घः शतकाण्डः पय॑स्वानपामग्निर्वीरुधौ राजसूर्यम् । स नोयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः॥१॥ सहस्रऽअर्थः । शतऽकाण्डः । पयस्वान् । अपाम् । अग्निः । वीरुधाम् । राजऽसूयम् । सः। नः। अयम्। दर्भः। परि। पातु । विश्वतः । देवः । मणिः । आयुषा। सम् । सृजाति । नः ॥१॥ सहस्रार्घः बहुमूल्यः शतकाण्डः अनेककाण्डोपेतः । शतम् इति । दश दशतः परिमाणम् अस्येति दशानां शभावः तश्च प्रत्ययो निपातितः । सहस्वान् बलवान् अपाम् उदकानाम् अग्निः अ- ग्निस्थानीयः । “अग्नेरापः” इति श्रुतेः [तै आ°t.१] । अपां स्र- १ A B C D E Cs सहस्रार्घः, D० सहस्रार्थः changed to सहस्रार्घः. PJ सहस्रऽअर्थः ।, We with KKSVB. RC: ogroit. We with ABCDRS V De PÉ J. 18 प्रथममुख्यः for मुख्यः.