पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१० अथर्वसंहिताभाष्ये यम् । बिभ्रतम् । ननु । पाप्मा। विवेद । सः। नः । अयम् । दर्भः। वरुणः । दिवा । कः ॥९॥ यो दर्भः शतकाण्डाख्यो जायमानः प्रादुर्भवन्नेव पृथिवीं सर्वाम् अ- दृंहत् दृढां कृतवान् । दह दृहि वृद्धौ । यथा अप्सु वि- लीना [न] भवति तथा स्वमूलेन भुवं दृढां चकारेत्यर्थः । यश्च जा- तमात्रः सन् स्वकाण्डैः अन्तरिक्षम् अन्तरा1 क्षान्तं भवतीति अन्तरि- क्षम् । तच्च दिवम् द्योतमानं धुलोकं च अस्तभ्नात् स्तम्भितवान् । यथा ते न निपतेतां तथा 2तस्तम्भ । यम् उक्तलक्षणं शतकाण्डदर्भ- मणिं बिभ्रतम् धारयन्तं पाप्मा 3ननु विवेद न जानाति । न स्पृशती- त्यर्थः । स तादृशोयं वरुणः अन्धकारनिवारको दर्भो नः अस्माकं दिवा प्रकाशम् अंकः करोतु । ४ लुङि “मन्त्रे घस” इति च्लेर्लुक् । दशमी॥ सपत्नहा शतकाण्डः सहस्वानोषधीनां प्रथमः सं बभूव । स नोयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥ १० ॥ सपत्नऽहा। शतऽकाण्डः । सहस्वान् । ओषधीनाम् । प्रथमः । सम्। बभूव। सः। नः । अयम् । दर्भः। परि । पातु। विश्वतः । तेन । साक्षीय । पृतनाः । पृतन्यतः ॥१०॥ सपत्नहा सपत्नानाम् । सपत्नीवत् सपत्नः । 4एकस्मिन् विषये समानप- तित्वम् इच्छतां शत्रूणां हन्ता शतकाण्डः शतसंख्याकैरनेकैः काण्डैरुपेतः सहस्वान् सहो बलं तद्वान् एवंमहानुभावः ओषधीनाम् इतरासां प्रथमः PV सहस्वाना . A B C D k R DEC सहस्वनी , which shows that the mistak: arne tiron सहस्वानो° being misread into सहस्वानो (सहस्तनौ). The mistake has been perfectuater for ages. २R पृतन्यतः. P पृतन्यतः ।। ३J स्वान् । changeel to F2FT, POETAT I, which would show that the paslas are not vider than the mistake which rent सहस्वानो' into सहस्वानो. 18 अन्तरि. 38 पाप्मानमेव वद for पाप्मा ननु विवेद. 43 कस्मिन् lior एकस्मिन्. 28 स्तंभ.