पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू°३२.] ५७६ एकोनविंशं काण्डम् । ४०९ शश्वदित् सर्वदा अहं शश्वतः नित्यान् दीर्घजीविनो जनान् [असनम् अ- लभे अपि च सनवानि] लभे। षणु दाने । तानादिकः । लोटि "आडुत्तमस्य पिञ्च" इति आडागमः ॥ अष्टमी ॥ प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च । यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥ ५ ॥ प्रियम् । मा। दर्भ । कृणु । ब्रह्मऽराजन्याभ्याम् । शूद्राय । च । आर्याय । च। यस्मै । च । कामयामहे । सर्वस्मै । च । विऽपश्यते ॥ ४ ॥ हे दर्भ मा मां त्वां धारयमाणं ब्रह्मराजन्याभ्यां ब्राह्मणक्षत्रियाभ्यां व- र्णाभ्यां प्रियं कृणु कुरु । ब्राह्मणानां क्षत्रियाणां च यथाहं प्रियो भ- वामि तथा मां कुर्वित्यर्थः । अनेन तेषां वशीकरणं प्रार्थितं भवति । तथा शूद्राय च आर्याय च । जात्यभिप्रायम् इदम् । शूद्राणाम् आ- र्याणां च मां प्रियभूतं कुरु । किं च अहं यस्मैयस्मै अनुलोमेषु प्रति- लोमेषु च जातीयेषु मध्ये यस्मैयस्मै प्रियभाव2 कामयामहे तस्मै सर्वस्मै विपश्यते पापम् अन्विष्यते पुरुषाय मां प्रियं कुरु ॥ नवमी॥ यो जायमानः पृथिवीमदृंहद् यो अस्तभ्नादन्तरिक्षं दिवं च । यं बिभ्रतं ननु पाप्मा विवेद स नोयं दर्भो वरुणो दिवा कः ॥ ९ ॥ यः । जाय॑मानः । पृथिवीम् । अदृहत् । यः । अस्तनात् । अन्तरिक्षम् । दिवम् । च। १ A अयं for प्रियं. २ Kky राजन्याभ्यौ. We with A B C D R S DOC. AB CDRCs matt. De states corrected to sgara. Ř V with Sayanı. På restieri. J puretl. Wo with $. Cat. We with A B DKKRŠ VDOCS. A CDK RV Cs विपश्यते. Do विपश्यते cinngcal to विपश्यते. विपश्यते, PJ वि। पश्यते ।. fosgezet. A strº. Such is the accent of all our authorities inlculiny PŮJ. 28 विप्रियं nि प्रियं. 1 So S.