पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४०६ ष- अथर्वसंहिताभाष्ये को भूत्वा सपत्नान् अस्मदीयान् शत्रून् सहिषीमहि अभिभवेम । ष- ह मर्षणे । आशीर्लिङि रूपम ॥ षष्ठी ॥ सहस्व नो अभिमातिं सहस्व पृतनायतः । सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥ ६ ॥ सहस्व । नः । अभिऽमातिम् । सहस्व । पृतनाऽयतः । सहस्व । सर्वान् । दुःऽहार्दैः । सुऽहादः । मे। बहून् । कृधि ॥ ६॥ हे शतकाण्डौषधे नः अस्माकम् अभिमातिम् 1अभिहिंसकं शत्रु पापं वा । “पाप्मा वा अभिमातिः” इति श्रुतेः [तै सं० २.१.३.५] । सहस्व अभिभव । तथा [पृतनायतः] पृतन्यतः पृतना सेना ताम् आत्मन इच्छतः । मया सह योद्धुम् इति शेषः । 2तांश्च सहस्व अभिभव । किं बहुना । सर्वान दुर्हार्दः दुह्रदयान् सहस्व । एवं कृत्वा3 मे सुहार्दः सु- हृदयान् बहून कृधि कृणु । सर्वान मयि अनुकूलान् कृधीत्यर्थः ॥ सप्तमी॥ दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित् । तेनाहं शश्वतो जनाँ असनं सनवानि च ॥ ७ ॥ दर्भेणं । देवऽजातेन । दिवि । स्तम्भेन । शश्वत । इत् । तेन । अहम् । शश्वतः । जनान् । असनम् । सनवानि । च ॥७॥ देवजातेन देवेभ्यः सकाशाद् उत्पन्नेन दिविष्टम्भेन द्युलोकस्य अधः- पाताभावाय स्तम्भकेन धुलोकस्य स्तम्भभूतेन वा एवंविधेन तेन दर्भेण १ AC D k RV Dc वहुं . बहु है. PJ बहुम् ।. B and V with Sayana. We with Sayapa. २ A BCD R SOs देवजातेन. D देवजातेन corrected to देषजतिन. PJ oprati, We with KÊVÉ. CDKRŠ V Car . PPJ: 1. We. ४ A B C D K K असना. V असनाम्स. 3 असनात्स, Dc असनात्स'. PPJ असनाम् ।. Siyana's text: जनानसनं सनवानि च. We with R.Cs. 18' अहिंसकं. 28 तंच. with AB. 35 कृता.