पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०३२.] ५७६ एकोनविंशं काण्डम् । ४०७ त्वयाहं दुर्हार्दो जिह्वां नि तृणद्भि वचासि ॥ ४ ॥ तिस्रः । दिवः । अति । अतृणत् । तिस्रः । इमाः । पृथिवीः । उत । वयो । अहम् । दुःऽहादः । जिह्वाम् । नि। तृणनि । वासि ॥ ४ ॥ हे शतकाण्डाख्यौषधे त्वं तिस्रो दिवः 1त्रिविधान् द्युलोकान् । भोक्तृ- णाम् उत्तममध्यमाधमभेदेन त्रैविध्यात् तद्भोगस्थानस्य धुलोकस्यापि त्रि- त्वम् । एवं वक्ष्यमाणायाः पृथिव्या अपि द्रष्टव्यम् । अत्यंतृ2णः अति- क्रम्य गतवान् असि । वेष्टितवान् असीत्यर्थः । उत अपि च इमाः परिदृश्यमानास्तिस्रः पृथिवीरपि अत्यतृर्णः । एवंमहानुभावेन त्वया दु. र्हार्दः दुर्हृदयस्य शत्रोर्जिह्वां नि तृणद्भि वेष्टयामि । तस्य वचांसि च वे- ष्टयामि बन्धयामि । यस्त्वं3 कृत्स्नां द्यावापृथिवीम् आक्रान्तोसि तादृशेन अतिदीर्घेण त्वया शत्रोर्जिह्वां वाचश्च बध्नामि । ४. उतृदिर् हिंसाना- दरयोः । रौधादिकः । “हल्ड्या" इत्यादिना 5सिपो लोपः ५ ॥ पञ्चमी॥ त्वमसि सहमानोहमस्मि सहस्वान् । उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीमहि ॥ ५ ॥ त्वम् । असि । सहमानः । अहम् । अस्मि । सहस्वान् । उभौ । सहस्वन्तौ । भूत्वा । सऽपत्नान् । सहिषीमहि ॥ ५॥ हे शतकाण्डाख्यौषधे वं सहमानासि शत्रूणां सहनशीला भवसि । अहं च सहस्वान् शत्रुहिंसासाधनबलोपेतः अस्मि । सह इति बलनामसु पाठात् । अतिशयेन शत्रूणां सोढास्मीत्यर्थः । उभौ सहस्वन्तौ सहनधर्म- Such is the reading of all our authorities, though the metre as well as the syntax requires a after quilfr. Sayana's commentary scelus to read it though Juis text omits it like our anthorities. * P façat: 1. We with. Ď J. Piaforumet i.

  • D°मानोयम

18 विविधान्. 2 Sayana's text too अत्यतृणस्तित्र &c. 38 यतस्त्वं for यस्त्वं. 4 All this grammatical note is given in S' at the end of the commentary on the previous verse, i.e. after कुर्मः instead of here. 38 सिचो. 6 Sảyana's text too: सहमाना.