पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" ४०६ अथर्वसंहिताभाष्ये न । अस्य । केशान् । प्र। वपन्ति । न । उरसि । ताडम् ।आ।प्रते। यस्मै । अच्छिन्नऽपर्णेन । दर्भेण । शर्म । यच्छति ॥२॥ अस्य केशान् शिरोरुहान् [न] प्रवपन्ति [न] आकर्षन्ति मृत्युदूताः रक्षः- पिशाचाद्या वा । तथा अमुम् उरसिताडम् उरस्ताडयित्वा न आ प्रते न हिंसन्ति मृत्युदूताद्याः ।"हिंसार्थानां च 1समानकर्मकाणाम्"1 इति तृतीयान्त उपपदे2 विहितो णमुल् सप्तम्युपपदेपि व्यत्ययेन निष्पन्नः । 'तत्पुरुषे कृति बहुलम्" इति अर्लुक्3 । आ घ्नते इति । “आङो यमहनः इति अस्वाङ्गकर्मकेपि आत्मनेपदम् । अस्येति उक्तं कस्य इत्यत आह । 4यस्मै मृत्युभयार्दिताय पुरुषाय अच्छिन्नपर्णेन दर्भे- ण दर्भमणिबन्धनं कृत्वा शर्म सुखं यच्छति प्रयोक्ता । अस्येति पूर्वत्र संबन्धः ॥ तृतीया॥ दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः । त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥ ३ ॥ दिवि । ते । तूलम् । ओषधे । पृथिव्याम् । असि । निऽस्थितः । त्वया । सहस्रऽकाण्डेन । आयुः । प्र। वर्धयामहे ॥३॥ हे ओषधे शतकाण्डाह्व ते तव तूलम अग्रं दिवि धुलोके । ताव- त्पर्यन्नं तवोर्ध्वाभिवृद्धिरित्यर्थः । पृथिव्याम् भूम्यां कृत्स्नेनात्मना वि- ष्ठितः विविधम् अवस्थितः असि । सर्वां पृथिवीम् आक्रम्य अवस्थित इत्यर्थः । एवं द्यावापृथिवीव्यापिना 5त्वया सहस्रकाण्डेन अनेककाण्डोपे- तेन अस्य मृत्युभीतस्य आयुः प्र वर्धयामहे प्रकर्षेण अभिवृद्धिं कुर्मः ॥ चतुर्थी ॥ तिस्रो दिवो अत्यतृणत् तिस्र इमाः पृथिवीरुत । 18 मणि विभ्रतः पुरुषस्य after कर्मकाणाम्" इति. 28 उपपदेपि. 38 लुक्. अस्मै for यस्मै. 55 तेन for त्वया though Sayana's text hus त्वया. 48