पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू°३२.] ५७६ एकोनविंशं काण्डम् । ४०५ तत्र प्रथमा ॥ शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः । दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥ शतऽकाण्डः । दुःऽच्यवनः । सहस्रऽपर्णः । उत्ऽत्तिरः । दुर्भः । यः । उग्रः । ओषधिः । तम् । ते । बध्नामि । आयुषे ॥१॥ अनेन दर्भस्य मणिसाधनभूतस्य स्वरूपाधानपूर्वकं मृत्युभयपरिहाराय मणिरूपेण बन्धनम् अभिधीयते । शतकाण्डः । शतशब्दः अपरिमितवच- नः । अनेकैः काण्डैः पर्वभिर्युक्तः । दश दशतः परिमाणम् अस्येति दशानां शभावः तश्च प्रत्ययो निपातितः ।दुश्च्यवनः। च्युञ् प्रुङ् गतौ । “छन्दसि गत्यर्थेभ्यः” इति युच् । दुःखेन1 च्याव- नीयः न केनापि च्याव्यः सहस्रपर्णः अनेकैः पत्रैर्युक्तः । उत्तरमन्त्रे अ- च्छिन्नपर्णेन दर्भेणेति पर्णानाम् आवश्यकत्वाभिधानाद् अत्र सहस्रपर्ण इति विशेषितः । उत्तरः उत्कृष्टतरः सर्वेषामप्योषधीनां मध्ये अतिशयि- तवीर्यः। उदः सुबन्तत्वात् तरप् । अस्य तथात्वम् उत्त- रत्र दर्शयिष्यते । एवंलक्षणं उग्रः उद्भूर्णबलः ओषधिः ओषधिविशेष इति विशेषितरूपो यो दर्भः तेन2 दर्भेण हे मृत्युभयार्दित पुरुष त्वां ब- बध्नामि बन्धनं करोमि । किमर्थम् । आयुषे शतसंवत्सरलक्षणायुरर्थम् ॥ द्वितीया ॥ नास्य केशात् प्र वपन्ति नोरसि ताडमा घ्नते । यस्मा अच्छिन्नपर्णेन दर्भेण शर्म यच्छति ॥ २ ॥ { ADRCs Tuni. De quan: corrected to genaai. Wo wich BCKÄÄ Y. २ KV°पर्ण उत्तरः with Satyana. PP उत्ऽतिरः।. R उत्तिरः changeel from उत्तरः, and J atsfatt: I changed from gąszt: l. We with ABCDËRS De Cs. स्तत्ते. De °स्त ते changed to °स्तत्ते. P तम् । correcteel to तत् ।. PJ तम् ।. We willn BCDRS. XA ŚCDRS archer atº. De arcper are corrected into aitle are. JI. We with R V C:Pr. Such is the necent of all our authoritics in- cluding PÅ J. 18 inserts an उत्तरः before दुःखेन. 2S inserts यो दर्भः after एवंलक्षणः though it has at : further down. तवीर्यः । KV