पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" ४०४ अथर्वसंहिताभाष्ये स्वामिनं सोमयागादिकर्मानुष्ठातारं वा कृणु कुरु । हे औदुम्बरं मणे स तादृशः उक्तविधनानाधर्मोपेतस्त्वम्1 त्वयि विद्यमाना [ये] ग्रामणी- त्ववर्चस्वित्वतेजोरूपात्वाधिरयित्वादयो धर्माः सनि तान् सर्वान् अस्मासु धेहि स्थापय । किं च नः अस्माकं सर्ववीरम् सर्वे वीराः पुत्रभृत्या- दयो यस्यां रय्यां तुष्यन्ति तादृशं रयिम् धनं च नि यच्छ प्रयच्छ । यद्वा सर्ववीरं यथा भवति तथा रयिं प्रयच्छेत्यर्थः ॥ चतुर्दशी ॥ हे मणे अहं धनादिपुष्टिकामस्वां रायस्पोषाय धनानां पुष्ट्यै । “षष्ठ्याः पतिपुत्र' इत्यादिना सत्वम्3 । प्रति मुञ्चे बध्नामि । प्रतिमोको बन्धनम् । “रुक्मम् अन्तरं प्रति मुञ्चते' इत्यादिश्रुतेः [सं० ५.१.१०.३] । एतदेव परोक्षेण पुनरभिधीयते फलान्तरसंबन्धाय । [अयं] वीरः विविधम् ईरयति अमित्रान् इति वीरः । तादृश औदुम्बरो मणिः वीराय4 वीरत्वाय यथा स्वयं वीरो भ- वति तथाभावाय बध्यते । स तादृशो मणिः नः अस्माकं मधुमतीम् । मधुवद् उपयुज्यमानत्वं मधुशब्देन उच्यते । तद्वतीं सनिम् धनादिलब्धिं कृणोतु करोतु । तथा नः अस्माकं रयिं च सर्ववीरं यथा भवति तथा । अतिप्रभूतम्5 इत्यर्थः । यद्वा पुत्रादयो वीराः । तैः सहितं यथा भवति तथा रयिं नि यच्छात् पुत्रादीन् रयिं च नियच्छत्वित्यर्थः ॥ [इति ] चतुर्थेनुवाके पञ्चमं सूक्तम् ॥ 'शतकाण्डो दुश्चयवनः" इत्यादिकं षष्ठं सूक्तम् । तस्य “याम्यां यमभये" [नक°१७.] इति विहितायां याम्याख्यायां महाशानौ द- र्भमणिबन्धनं कुर्यात् । सूत्रितं हि नक्षत्रकल्पे । “नेच्छत्रुरिति[२.२७] 'पाठामूलम् अपराजितायाम् शतकाण्डो दुश्च्यवनः [१९.३२] इति दर्भ- "मणिं याम्याम्6" इति [नक०१९.] ॥ 1S inserts an अस्मास्वपि after त्वम्.28 रयिः for यद्वा. 38 inserts car again after सत्वम्. 4 For वीरः ..... धीराय 3' has : वीरः औदुंबरो मणिराय विविधमीरयति अमित्रानिति वीरः । तादृशोमणिवीराय. 58 अतिप्रभूताम् for अतिप्रभूतम्, Nakshatra-kelya has : याम्यायाम् for याम्याम्. 6 The