पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०३१.] ५७५ एकोनविंशं काण्डम्। ४०३ मपि श्रेष्ठं कुरु । त्वं वर्चसा अभिषिक्तोसि अभित आच्छन्नोसि । [मा] मामपि वर्चसा अभि षिञ्च अभिषिक्तं कुरु । हे मणे त्वं तेजोसि सा- क्षात् तेजोरूपोसि अतः मयि तेजो धारय । किं च त्वम अधिरयिः अधिगतरयिः प्राप्तधनः असि । रयिं मे धेहि स्थापय प्रयच्छ । रयि- र्धनम्। रातेर्दानकर्मणः [नि० ४.१७] x ॥ [त्रयोदशी चतुर्दश्यौ] ॥ पुष्टिरसि पुष्ट्या मा समड्धि गृहमेधी गृहपतिं मा कृणु । औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यच्छ रायस्पो. पाय प्रति मुञ्चे अहं त्वाम् ॥ १३ ॥ पुष्टिः । असि । पुष्ट्या । मा । सम् । अङ्घि । गृहमेधी । गृहऽप॑तिम् । मा। कृणु। औदुम्बरः । सः । त्वम् । अस्मासु । धेहि । रयिम् । च । नः । सर्वेऽवी- रम्। नि । यच्छ । रायः । पोषाय । प्रति । मुञ्चे। अहम् । वाम् ॥१३॥ अयमौदुम्बरो मणिर्वीरो वीराय बध्यते । स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यच्छात् ॥१४॥ अयम् । औदुम्बरः । मणिः । वीरः । वीराय । बध्यते । सः । नः । सनिम् । मधुऽमतीम् । कृणोतु । रयिम् । च । नः । सर्वेऽवी- रम् । नि । यच्छति ॥ १४ ॥ त्रयोदशी ॥ हे मणे त्वं साक्षात् [पुष्टिः] पुष्टिरूपोसि । अतः पुष्टया पोषेण मा मां समङ्घि सम्यग् अक्तं कुरु । समृद्धं कुरु । तथा गृ- हमेधी त्वम असि । मा मां गृहपतिम् धनकनकादिसमृद्धस्य गृहस्य1

  • KRV De B groepe geat. We with A B CDRŠC P J.

२ BC R समि- न्धि. PF J सम् । धि।. We with D ksv Do Cs. ३ A BD $ सत्वमस्मा . We with CKÄRV De Cs. ४Kkv स नः सनि. De स नः सनि changed to स नः for. We with ABCDRŠC. 13 has सर्वदा गृहस्य for गृहस्य.