पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°४. सू०३१.] ५७५ एकोनविंशं काण्डम् । ४०१ चन्द्रा कुहूर्मता" इति श्रुतेः दृष्टचन्द्रामावास्याभिमानिदेवता सिनी- वाली । सा च धनादिकम् उपा वहात् । अयं धार्यमाण औदुम्बरो मणिश्च उप वहात् उपावहतु प्रापयतु । वह् प्रापणे । लेटि आ- डागमः ॥ अथ वा सरस्वती मे धनम् हिरण्यरजतमणिमुक्तादि- लक्षणं हस्तेन धारणयोग्यम् आ गमयतु । पयस्फातिं धान्यं च सिनी- वाली औदुम्बरो मणिश्च उपा1 वहात् समीपदेशं प्रापयतु इति व्यवस्था ॥ एकादशी ॥ त्वं मणीनामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान । त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत् संहस्वारादरातिम- मतिं क्षुधं च ॥११॥ त्वम् । मणीनाम् । अधिऽपाः । वृषा । असि । त्वयि । पुष्टम् । पुष्टऽपतिः । जजान। त्वयि । इमे इति । वाजाः । द्रविणानि । सर्वा । औदुम्बरः । सः । त्वम् । अस्मत् । सहस्व । आरात् । अतिम् । अमतिम् । क्षुधम् । च ॥११॥ हे औदुम्बर मणे त्वं मणीनाम् इतरेषां रक्षासमृद्धिजयादिसाधनानां दर्भादिनिर्मितानाम् अधिपः2 स्वामी वृषा अभिमतफलवर्षिता च असि । अधिपत्वे कारणम् आह । यतः त्वयि पुष्टम् गवाश्वादीनां सर्वेषां पोषं पुष्ट3पतिः सर्वपदार्थपोषकर्ता4 प्रजापतिः जजान् उदपादयद् अकरोत् । अतः मणीनाम् अधिपो वृषा चासि । अस्तु किं तत इत्यत आह । त्वयां सर्वसमृद्ध्यास्पदभूतेन मे मह्यं वाजाः अन्नं वै वाजः इति ? Datsus ferontº. Sarsat afattº. Cs atst. We with ABKÅR VDE. A BD. We with CRR Š V De Cs. ABCD ÄR ŠDe Cs PP oferte मृतं. PPJ अमृतम् ।. We with Sayana, and the accents accordingly. V तिममितं, an instance of both wrong borrowing and wrong retention of the old accent. J वाजा। 1 So S. 2 S' Sảyana's text, however, exhibits i NT. 38 पुष्टिपतिः. 1S inserts त्वा after °कर्ता. CG 99 YPP