पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४०० अथर्वसंहिताभाष्ये नवमी॥ यथाग्रे त्वं वनस्पते पुष्टया सह जज्ञिषे । एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥ ९ ॥ यथा । अग्रे। त्वम् । वनस्पते । पुष्टया । सह । जज्ञिषे । एव । धनस्य । मे । स्फातिम् । आ। दधातु । सरस्वती ॥ ९ ॥ हे वनस्पते वनस्य पालक औदुम्बरमणे । विकारे प्रकृतिशब्दः । त्वं यथा अग्रे ओषधिवनस्पतिसृष्टिसमये पुष्ट्या पोषेण सह उत्पतिसमय एव जज्ञिषे उत्पन्नोसि एव एवं मे धनस्य स्फातिम् अभिवृद्धिं त्वया साधन- भूतेन सह सरस्वती सरणवती वाग्देवी आ दधातु करोतु । आ- ̽र्वो दधातिः करोत्यर्थे वर्तते । एवा धनस्येत्यत्र "निपातस्य च” इति सांहितिको दीर्घः ॥ दशमी॥ आ मे धनं सरस्वती पयस्फातिं च धान्यम् । सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥ १० ॥ आ। मे। धनम् । सरस्वती । पर्यःऽस्फातिम् । च । धान्यम् । सिनीवाली। उप । वहात् । अयम् । च । औदुम्बरः । मणिः॥१०॥ सरस्वती देवी मे मम धनम् हिरण्यादिलक्षणं पयस्फातिम् पयसोऽभि- वृद्धिं च । अनेन पयसोऽभिवृद्धिप्रार्थनेन गोसमृद्धिः प्रार्थिता भवति । तथा धान्यं च । व्रीहियवादीनाम् ओषधीनां फलानि धान्यानि । अत्र जातावेकवचनम् । आ इति उपसर्गश्रुतेः वहत्विति योग्यक्रियाध्या- हारः। एवं सिनीवाली देवता च । "दृष्ठचन्द्रा सिनीवाली न- १ Kkv वनस्पते पुष्टया. पुष्टया । De वनस्पते पुष्टया changed to वनस्पते पुष्टया. We with A CDRŠC: PJ. TAŚCDKKR V De Cs in PJ sfont IWe with #. A B C DRS मे स्फातिमा. De मे स्फातिमा changed to मे स्फातिमा. P स्फातिम् ।. J स्फातिम् ।. We with kv PDc. ४ A B ल्युप. corrected from °ल्यु- ५PJ अवहात् ।। पा.