पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰ ४. सू°३१.] ५७५ एकोनविंशं काण्डम् । ३९९ जिन्वितः प्रीणितः प्रेरितः वर्चसा अस्मदभिमतेन तेजोविशेषेण सह मा माम आगन् आगमत् । जिन्वित इति । इवि जिवि धिवि प्री- णनार्थाः । धातूपदेशावस्थायामेव नुमागमः । कर्मणि निष्ठायाम् इडा- गमः । इदित्वाद् नकारलोपाभावः । अगन्निति । गमेर्लुङि मन्त्र्ये घस." इति श्लेर्लुक् । “मो नो धातोः" इति नत्वम् ५ ॥ अष्टमी॥ देवो मणिः संपत्नहा धनसा धनसातये। पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु ॥४॥ देवः । मणिः । सपत्नऽहा । धनऽसाः। धनऽसातये । पशोः । अन्नस्य । भूमानम् । गाम् । स्फातिम् । नि। यच्छतु ॥६॥ देवः द्योतमानो मणिः औदुम्बरः । पुष्ट्यर्थ देवैर्निर्मितत्वाद् देव इ- त्युच्यते । तादृशो मणिः सपत्नहा सपत्नानां हन्ता तथा धनाः धना- नाम् अस्मदभिलषितानां साता दाता । वन पण संभक्तौ । "जनसनखनक्रमगमो विट्" । “विड्वनोरनुनासिकस्यात्" इति आ- त्त्वं। एवंरूपो मणिः धनसातये धनानां लाभाय भवतु। नसनखना1 सन्झलोः” इति आत्त्वम् । किं च पशोः अन्नस्य च भूमानम् बहुभावं समृद्धिं नि यच्छतु । तथा गवां स्फातिम् अभि- वृद्धिं च नि यच्छतु2 । यद्यपि पशुभूम्नैव गोस्फातिरप्युक्ता तथापि ग- वाम् अतिशयेनोपयोगात् प्राधान्याय पुनरभिधानम् । “देवा वा ऊर्जं व्यभजन्त । तत उदुम्बर उदतिष्ठत्" इति श्रुतेः [तै ब्रा० १.१.३.१०] ऊक्सबन्धाद् अन्नसमृद्धिकारकत्वम् ॥ A B C DR S गयां स्फातिनि. D. गवां स्फातिनि correctert i) गयो स्फ़ातिं नि. kv Tai tanfos with Sayana, retaining the accents of the ass. We with D: J anul Sayann as regards the case and De P as to accents. PÞJ NATI. P qen: i. We with BJ. ४ P स्फातिः। स्फातिः ।. J स्फातिम् । changeel to स्फातिः ।. 18 धनसा for धनसाः, 23 यच्छति.