पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९८ अथर्वसंहिताभाष्ये षष्ठी॥ अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु । मयमौदुम्बरो मणिर्द्रविणानि नि यच्छतु ॥ ६ ॥ अहम् । पशूनाम् । अधिडपाः । असानि । मयि । पुष्टम् । पुष्टपतिः। दधातु। << मह्यम् । औदुम्बरः । मणिः । द्रविणानि । नि । यच्छतु ॥ ६ ॥ 'मह्यमौदुम्बरः” इति अर्धर्चः उत्तरमन्त्रे वा द्रष्टव्यः । अहं पुष्टि- कामः पशूनाम् द्विपदां चतु1ष्पदां च अधिपाः अधिष्ठाय पालकः स्वामी असानि भवानि । अधिपूर्वात् पातेर्विच् । असानीति । अस्ते- र्लोटि "आडुत्तमस्य पिञ्च" इति आडागमः । तदर्थं मयि पुष्टि- कामे पुष्ट2म् पोषं पश्वादेः समृद्धि3म् । " नपुंसके भावे क्तः" इति क्तः। तत् पुष्टपतिः पश्वादिपोषस्वामी औदुम्बरो मणिः दधातु प्रयच्छतु । एवं मह्यम् औदुम्बरो मणिः द्रविणानि हिरण्यानि नि य- च्छत्तु नियमयतु प्रयच्छतु ॥ सप्तमी ॥ उप मौदुम्बरो मणिः प्रजया च धनेन च । इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥ ७ ॥ उप । मा । औदुम्बरः । मणिः । प्रऽजया । च । धनेन । च । इन्द्रेण । जिन्वितः । मणिः । आ।मा। अगन् । सह । वर्चसा ॥७॥ मा माम् औदुम्बरो मणिः प्रजया पुत्रपौत्रादिरूपया च धनेन हि- रण्यादिलक्षणेन गवादिरूपेण च सह उप । उपसर्गश्रुतेः साम- र्थ्याद् आगन्निति आकृष्यते । आगमत् । एवं स मणिः इन्द्रेण १ A B C D E K R DOC असानि. PPJ असानि ।. We with s. TABR उप- मौदु. D उपमौदु. D उपमोदु We with c K KSV Cr. ABCDKKRŠV De Cs fotranit. PŮJ foraatit. We with Sâynna, and the accents accordingly. 15' यश्चतुष्पदां. पुष्टिम्, though the text in s is पुष्टं. 38 समृद्धम्.