पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰४. सू०३१.] ५७५ एकोनविंशं काण्डम् । ३९७ इति पादस्य लोपः समासान्तः । “ड्ढित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ" इति द्विपाच्छब्दस्य अन्तोदात्तत्वम् । चतुष्पाद् इति । बहुप्रीही पूर्वपदप्रकृ- तिस्वरत्वम् । यानि च अन्नानि तिलमाषबीहियवप्रियङ्ग्वादीनि ग्रा- म्याणि अन्नानि । 1यानि च अरण्यजानि अन्नानि ये च रसाः दधि- क्षीरमधुगुडादिरूपाः सन्ति 2एषाम् उक्तानां सर्वेषां भूमानम् बहुभा- वम्। बहुशब्दाद् इमनिचि “बहोर्लोपो भू च बहोः” इति इ. मनिच आदिलोपो बहोर्भूभावश्च । औदुम्बरं मणिं बिभ्रद् अहं गृहे स्वीकरोमि भजामि ॥

पञ्चमी॥ पुष्टिं पशूना परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यमि । पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यच्छात् ॥ ५ ॥ पुष्टिम् । पशूनाम् । परि । जग्रभ । अहम् । चतुःऽपदाम् । द्विऽपदाम् । यत् । च । धान्यमि। पयः । पशूनाम् । रसम् । ओषधीनाम् । बृहस्पतिः । सविता । मे। नि। यच्छात् ॥५॥ अहं पशूनां विपदां चतुष्पदां च यच धान्यम व्रीहियवादिरूपं तस्या- पि पुष्टिम् पोषं परि जग्रभ परिग्रहं करोमि । ग्रहेश्छान्दसे लि- टि उत्तमैकवचने णलि णलुत्तमो वा" इति णित्त्वस्य विकल्पितत्वाद् वृद्धयभावः । किं च सविता सर्वस्व अनुज्ञाता बृहस्पतिर्देवः पशू- नाम् गोमहिष्यादीनां पयः तथा ओषधीनाम् व्रीह्यादीनां रसम् सार-3 भूतम् अंशं मे मह्यं नि यच्छात् । औदुम्बरस्य तेजसा इति शेषः । प्रय- च्छतु। यम उपरमे । लेटि “इषुगमियमां छः" इति छादेशः । आडागमः ॥ १P पुष्टिम् ।. We with PI. २ P°पादाम् ।। 18 याणि यानि for यानि. 25 तेषाम्. 35 सारभूतभूततमंशं for सारभूतम् अंशं. <3